________________
बृहद् ऋषिमण्डलस्तोत्रम् ।
बृहद् ऋषिमण्डलस्तोत्रम् । आद्यन्ताक्षरसंलक्ष्यमक्षरं व्याप्य यत् स्थितम् । अग्निज्वालासमं नादबिन्दुरेखासमन्वितम् ॥ १॥ अग्निज्वालासमाक्रान्तं, मनोमलविशोधनम् । देदीप्यमानं हृत्पद्म, तत् पदं नौमि निर्मलम् ॥२॥ अहमित्यक्षरं ब्रह्म-वाचकं परमेष्ठिनः। . सिद्धचक्रस्य सदबीजं, सर्वतः प्रणिध्महे ॥३॥ ॐ नमोऽहंय ईशेभ्यः, ॐ सिद्धेभ्यो नमो नमः । ॐ नमः सर्वसूरिभ्यः, उपाध्यायेभ्य ॐ नमः ॥ ४ ॥ ॐ नमः सर्वसाधुभ्यः, ऊँ ज्ञानेभ्यो नमो नमः । ॐ नमः तत्त्वदृष्टिभ्यः, चारित्रेभ्यस्तु ॐ नमः ॥५॥ श्रेयसेऽस्तु श्रियेऽस्त्वेतत् , अहंदाद्यष्टकं शुभम् । स्थानेष्वष्टमु विन्यस्तं, पृथग्बीजसमन्वितम् ॥ ६॥ आद्य पदं शिखां रक्षेत्, परं रक्षेत् तु मस्तकम् । तृतीयं रक्षेद् नेत्रे द्वे, तुर्य रक्षेच्च नासिकाम् ॥७॥ पश्चमं तु मुखं रक्षेत्, षष्ठं रक्षेच्च घण्टिकाम् । नाभ्यन्तं सप्तमं रक्षेत्, रक्षेत् पादान्तमष्टमम् ॥ ८॥ पूर्व प्रणवतः सान्तः, सरेफो द्वयब्धिपञ्चषान् । सप्ताष्टदशसूर्याङ्कान् . श्रितोबिन्दुस्वरान् पृथक् ॥९॥ पूज्यनामाक्षरा आद्याः, पश्चातो ज्ञान-दर्शने । चारित्रेभ्यो नमो मध्ये, ही सान्तः समलंकृतः॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org