SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ नवस्मरणादिसाहे मध्ये हि भास्करः स्थाप्यः, पूर्वदक्षिणतः शशी। दक्षिणस्यां धरासूनुर्बुधः पूर्वोत्तरेण च ॥९॥ उत्तरस्यां सुराचार्यः, पूर्वस्यां भृगुनन्दनः। पश्चिमायां शनिः स्थाप्यो, राहुर्दक्षिणपश्चिमे ॥१०॥ पश्चिमोत्तरतः केतुरिति स्थाप्याः क्रमाद् ग्रहाः । पट्टे स्थालेऽथवाऽऽग्नेय्यां, ईशान्यां तु सदा बुधैः ॥११॥ आदित्यसोममङ्गलवुधगुरुशुक्राः शनैश्वरो राहुः। केतुप्रमुखाः खेटा, जिनपतिपुरतोऽवतिष्ठन्तु ॥ १२ ॥ पुष्पगन्धादिभिधूपैनैवेद्यैः फलसंयुतैः । वर्णसदृशदानैश्च, वस्त्रैश्च दक्षिणान्वितैः ॥ १३ ।। जिननामकृतोचारा, देशनक्षत्रवर्णकैः। पूजिताः संस्तुता भक्त्या, ग्रहाः सन्तु सुखावहाः ॥१४॥ जिनानामग्रतः स्थित्वा, ग्रहाणां शान्तिहेतवे । नमस्कारसमं भक्त्या , जपेदष्टोत्तरं शतम् ॥ १५ ॥ एवं यथानामकृताभिषेकैरालेपनर्धपनपूजनैश्च । फलैश्च नैवेद्यवरैर्जिनानां, नान्ना ग्रहेन्द्रा वरदा भवन्तु ॥१६॥ साधुभ्यो दीयते दान, महोत्साहो जिनालये । चतुर्विधस्य सङ्घस्य, बहुमानेन पूजनम् ॥१७॥ भद्रबाहुरुवाचैवं, पश्चमः श्रुतकेवली। विद्याप्रवादतः पूर्वाद् , ग्रहशान्तिरुदीरिता ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy