________________
नवस्मरणादिसाहे शतषोडशदलारूढं, विद्यादेवीभिरन्वितम् । चतुर्विशतिपत्रस्थं, जिनं मातृसमावृतम् ॥ २२ ॥ मायावेष्टत्रयाग्रस्थं, नौकारसहितं प्रभुम् । नवग्रहावृतं देवं, दिक्पालैदशभिवृतम् ॥ २३ ॥ चतुष्कोणेषु मन्त्राद्यचतुर्बीजान्वितैर्जिनैः। चतुरष्टदशदित्रिद्विधाङ्कसंज्ञकैयुतम् ॥ २४॥ दिक्षु क्षकारयुक्तेन, विदिक्षु लाङ्कितेन च । चतुरस्रेण वज्राङ्कक्षितितत्त्वे प्रतिष्ठितम् ॥ २५ ॥ श्रीपार्श्वनाथमित्येवं, यः समाराधयेजिनम् । तं सर्वपापनिर्मुक्तं, भजते श्रीः शुभप्रदा ॥ २६ ॥ जिनेश! पूजितो भक्त्या, संस्तुतः प्रस्तुतोऽथवा । ध्यातस्त्वं यैः क्षणं वापि, सिद्धिस्तेषां महोदया ॥२७॥ श्रीपार्श्वमन्त्रराजान्ते, चिन्तामणिगुणास्पदम् । शान्तिपुष्टिकरं नित्यं, क्षुद्रोपद्रवनाशनम् ॥ २८ ॥ ऋद्धिसिद्धिमहाबुद्धिधृतिश्रीकान्तिकीर्तिदम् । मृत्युञ्जयं शिवात्मानं, जपनान्नन्दितो जनः ॥ २९ ॥ सर्वकल्याणपूर्णः स्याजरामृत्युविवर्जितः। अणिमादिमहासिद्धि, लक्षजापेन चाप्नुयात् ॥ ३० ॥ प्राणायाममनोमन्त्रयोगादमृतमात्मनि । त्वामात्मानं शिवं ध्यात्वा,स्वामिन् ! सिध्यन्ति जन्तवः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org