________________
४
नवस्मरणादिसङ्कहे
श्रीपार्श्वनाथस्य मन्त्राधिराजस्तोत्रम् । श्रीपार्श्वः पातु वो नित्यं, जिनः परमशङ्करः। नाथः परमशक्तिश्च, शरण्यः सर्वकामदः ॥१॥ सर्वविघ्नहरः स्वामी, सर्वसिद्धिप्रदायकः । सर्वसत्त्वहितो योगी, श्रीकरः परमार्थदः ॥२॥ देवदेवः स्वयंसिद्धश्चिदानन्दमयः शिवः। . परमात्मा परब्रह्म, परमः परमेश्वरः ॥ ३॥ जगन्नाथः सुरज्येष्ठो, भूतेशः पुरुषोत्तमः । सुरेन्द्रो नित्यधर्मश्च, श्रीनिवासः शुभार्णवः ॥४॥ सर्वज्ञः सर्वदेवेशः, सर्वदः सर्वगोत्तमः । सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगद्गुरुः ॥५॥ तत्त्वमूर्तिः परादित्यः, परब्रह्मप्रकाशकः। परमेन्दुः परप्राणः, परमामृतसिद्धिदः ॥ ६ ॥ अजः सनातनः शम्भुरीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ॥७॥ साकारश्च निराकारः, सकलो निष्कलोऽव्ययः। निर्ममो निर्विकारश्च, निर्विकल्पो निरामयः ॥८॥ अमरश्चाजरोऽनन्त, एकोऽनन्तः शिवात्मकः । अलक्ष्यश्चाऽप्रमेयश्च, ध्यानलक्ष्यो निरञ्जनः ॥९॥ ॐकाराकृतिरव्यक्तो. व्यक्तरूपस्त्रयीमयः । ब्रह्मव्यप्रकाशात्मा, निर्भयः परमाक्षरः॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org