SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पुद्गलपरावर्तस्तोत्रम् । औदारिकवैक्रियतैजसभाषानप्राणचित्तकर्मतया। सर्वाणुपरिणतेमे, स्थूलोऽभूत् पुद्गलावतः ॥३॥ तत्सप्तकैककेन च, समस्तपरमाणुपरिणतर्यस्य । संसारे संसरतः, सूक्ष्मो मे जिन ! तदावतः ॥४॥ निःशेषलोकदेशान् , भवे भवे पूर्वसम्भवैमरणैः । स्पृशतः क्रमोत्क्रमाभ्यां, क्षेत्रे स्थूलस्तदावतः ॥५॥ प्राग मृत्युभिः क्रमेण च, लोकाकाशप्रदेशसंस्पर्शः। मम योऽजनि स स्वामिन् !, क्षेत्रे सूक्ष्मस्तदावतः ॥६॥ मम कालचक्रसमयान् , संस्पृशतोऽतीतमृत्युना नाथ !। अक्रमतः क्रमतश्च, स्थूलः काले तदाऽऽवतः ॥७॥ क्रमतस्तानेव(स्तान् वा) समयान् , प्राग्भूतैर्मृत्युभिः प्रभूतैर्मे। संस्पृशतः सूक्ष्मोऽर्हन् ! स्यात् कालतः( कालात्) पुदगलावतः ॥८॥ अनुभागबन्धहेतून् , समस्तलोकप्रदेशपरिसङ्घयान् । म्रियते क्रमोत्क्रमाभ्यां, भावे स्थूलस्तदावत्तः ॥९॥ प्राग मरणैः सर्वेषामपि तेषां यः क्रमेण संश्लेषः। भावे मे सूक्ष्मोऽभूजिनेश ! विश्वत्रयाधीश! ॥१०॥ नानापुद्गलपुद्गलावलिपरावर्ताननन्तानहं, पूरंपूरमियचिरं कियदशं बाढं दुदं नोढवान् । दृष्ट्वा दृष्टचरं भवन्तमधुना भक्त्याऽर्थयामि प्रभो!, तस्मान्मोचय रोचय स्वचरणं श्रेयाश्रियं प्रापय ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy