________________
जम्माइपत्थावां ।
७३
तिन्नेव य. कोडिसया अट्ठासीयं च हुंति कोडीओ । असियं च सयसहस्सा सव्र्व्वको वइयकणयस्स ॥५७३॥ इय आवरिसं कंचणवरिसेणं तपिऊण भवणंपि । निम्मग्गणं विहेउं सद्दावर मंतिणो राया ॥ ५७४ || तह तलवरसेणा हिवको साहिवमंडलीयसामंते । नयरीपहाणलोएण संजुए, ताण पञ्चकखं ॥ ५७५ ॥ विडं सव्वंपि हु कुमारे सिरिसेहरम्मि नियरज्जं । नीइत्ति दंतकंर्ति विरयंतो भणइ वयणमिणं ॥ ५७६ ॥ तुम्हाण एस सामी देवाणुपियाणुमन्नह इयाणि । मं सव्वविरइग्गहणे, तेवि हुसोऊण विम्हइया ||५७७|| जंपंति वज्जमइया सवणा अम्हाण नूण जे अज्ज । बहिरत्तणं न पत्ता इमाए वयणासणीए लहुं ॥ ५७८ ॥ इय एवमाइसकलुणवयणाणि परंपरा कहकहंपि । अणुमन्नति नरिदं गुरुनिब्बंधेण जंपतं ॥ ५७९ ॥ अह सिरिसेहरराया नयणं सुनिवायमैइलियकवोलो । चलणेसु निवडिऊणं विन्नवइ कहंपि जयगुरुणो ॥ ५८० ॥ जइवि परिवीणमोहा तुब्भे विरैया य सव्वविरईए। तहवि हु निक्खमणमहं पडिवज्जह मज्झ पसिऊण॥५८१॥ तस्सुवरोहेण इमं पडिसुणइ सुपासजिणवरो तत्तो । सिरिसेहर निवआणापवत्तिया वेत्ति तुरियं ॥ ५८२ | अद्भुत्तरं सहस्सं सुवन्नकलसाणु तत्थ आणिति । सुप्रसत्थतित्थसलिलं दिव्वाओ तहोसहीओ य ।। ५८३ ॥ घणसारमीसचंदणपमुहाई विलेवणाई सुरहीणि । जिणमज्जणत्थमुवणिति तत्थ, एत्थन्तरे ताव || ५८४ | बत्तीसंपि सुरिंदा कंपियसीहासणा मुणेऊण । ओहीए परमत्थं पवरविमाणेसु आरूढा ||५८५|| वियसियसयवत्ताविसाललोयणा जोव्वणुब्भडविलासा । बहुदेव कोडिकोडीहि परिवुडा चारुरूवधरा।।५८६॥
1
त्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि सर्वाङ्को व्ययितकनकस्य ॥१७३॥ इत्यावर्षं काञ्चनवर्षेण तर्पयित्वा भवनमपि । निर्माणं विधाय शब्दाययति मन्त्रिणो राजा ॥ ९७४ ॥ तथा तलवरसेनाधिपकोशाधिपमण्डलिकसामन्तान् । नगरीप्रधान लोकेन संयुतान्, तेषां प्रत्यक्षम् ॥ १७५ ॥ स्थापयित्वा सर्वाङ्गमपि हि कुमारे श्रीशेखरे निजराज्यम् । नीतिरिति दन्तकान्ति विरचयन्भणति वचनमिदम् ॥ युष्माकमेष स्वामी देवानुप्रियाः ! अनुमन्यध्वमिदानीम् । मां सर्वविरतिग्रहणे, तेऽपि खलु श्रुत्वा विस्मिताः ॥ जल्पन्ति वज्रमयाः श्रवणा अस्माकं नूनं येऽद्य । बधिरत्वं न प्राप्ता अनेन वचनाशनिना लघु ॥ ५७८॥ इत्येवमादिसकरुणवचनानि प्रजल्पितारः कथंकथमपि । अनुमन्यन्ते नरेन्द्रं गुरुनिबन्धेन जल्पन्तम् ॥९७९॥ अथ श्रीशेखरराजो नयनाश्रुनिपातमलिनितकपोलः । चरणयोर्निपत्य विज्ञपयति कथमपि जगद्गुरून् ॥१८०॥ यद्यपि, परिक्षीणमोहा यूयं विरताश्च सर्वविरत्याः । तथापि खलु निष्क्रमणमहं प्रतिपद्यध्वं मम प्रसीद्य ॥ ९८९ ॥ तस्योपरोधेनेमं प्रतिशृणोति सुपार्श्वजिनवरस्ततः । श्रीशेखर नृपाज्ञाप्रवर्तिता वैत्रिकास्त्वरितम् ॥१८२॥ अष्टोत्तरं सहस्रं सुवर्णकलशानां तत्रानयन्ति । सुप्रशस्ततीर्थसलिलं दिव्यास्तथैौषधीश्च ॥ १८३॥ घनसार मिश्रचन्दनप्रमुखानि विलेपनानि सुरभीणि । जिनमज्जनार्थमुपनयन्ति तत्र, अत्रान्तरे तावत् ॥ ५८४॥ द्वात्रिंशदपि सुरेन्द्राः कम्पितसिंहासना ज्ञात्वा ! अवधिना परमार्थ प्रवरविमानेष्वारूढाः ||५८५|| विकसितशतपत्रविशाललोचना यौवनोद्भट विलासाः । बहुदेव कोटि कोटिभिः परिवृताश्वारूपधसः ||५८६ ॥
१ ग. सत्तं । २ क. ग. मथिल । ३ ख. ग. °रिक्षीण । ४क. वरिया, ग. परिया° ।
?0
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org