________________
२३६
सुपासनाह चरिअम्मि
जं एस इह वइस्सर तं सव्वं मज्झ जाइ विहवाओ । तम्हा होमि विभिन्न पढमंपि विवाहकालाओ ||२८|| तो सूरं सो पभणइ बंधव ! जं किंपि एइ मह भागे । तं देह, भणइ सूरो किं एवं बुच्चए वच्छ ! ||२९| कस्स य पुनेहि सिरी वट्टइ मिलियाण नज्जइ न इत्थ । होज्ज पुढीभूयाणं सा कस्सवि कहवि दालिदं । तो तस्सव आभारो कड्डेयव्वोऽवरेण सव्वोवि । सुयणत्तसंठिएणं एवं चिय वहउ ता वच्छ ! ||३१|| तो are haal मह दालि होहिई विउत्तस्स । जइ, तोवि न पत्थिस्सं किंपि अहं देहि मह भागं || इय काउं निबंध बंधुसयासाउ लेइ विश्वद्धं । सिरिवच्छंपि हु लोभविय नेइ सो अप्पणी पासे ||३३| पइदिवस चिय व विवो सूरस्स, केसवस्स पुणो । तह खीणो जह भोयणमित्तं किच्छेण संपड || farafa नो गिoes सूरस्स इमो धणाइ थैवंपि । इय तम्पि खीणविवम्मि आगओ पाउसो कसो ॥ तथाहि ;
गज्जतगहिर घणगरुयगयघडाडोवपयडियपयावो । उत्थरइ गिम्हनिहणिकविकमो पाउसो राया ॥ ३६॥ वहलवणकसिंणजलहर अंधारियसयलगयणदिसिचके । नय नज्जइ कत्थ गओ वियंभिए पाउसे गिम्हो | इय पाउसेण कणियारिऊण वरिसंतमेघधाराहिं । निव्ववियं भुवणयलं मोचणं विरहिहिययाई || ३८ | तो सूरहालिए घित्तूण हलाई खित्तचलिएसु । हलउत्तयकरणत्थं सिरिवच्छं केसवो भइ ॥ ३९ ॥ अम्हेवि हु जुत्तेमोहलाई, सो भइ अज्ज भदाए । एए करिति, अम्हं जाणंताणं न तं जुत्तं ||४०|| अह सूरहालियाणं अच्चभ्रुयनच्चिरिं नडिं मग्गे । दहुं अक्खित्ताणं भद्दाए वोलिओ पहरो ॥ ४१ ॥
यह व्येष्यति तत्सर्वं मम याति विभवात् । तस्माद् भवामि विभिन्नः प्रथममेव विवाहकालात् ॥ २८॥ ततः सूरं स प्रभणति बान्धव ! यत्किमप्येति मम भागे । तद् देहि, भणति सूरः किमेवमुच्यते वत्स ! ॥ कस्य च पुण्यैः श्रीर्वर्तते मिलितानां ज्ञायते नात्र । भवेत्पृथग्भूतानां सा कस्यापि कथमपि दारिद्र्यम् ॥३०॥ ततस्तस्याप्याभारः कर्षितव्योऽपरेण सर्वोऽपि । सुजनत्वसंस्थितेनैवमेव वहतु तस्माद् वत्स ! ॥३१॥ ततो भणति केशवो मम दारिद्र्यं भविष्यति वियुक्तस्य । यदि, ततोऽपि न प्रार्थयिष्ये किमप्यहं देहि मम भागम् | इति कृत्वा निर्बन्धं बन्धुसकाशाल्लाति विभवार्धम् । श्रीवत्समपि खलु लोभयित्वा नयति स आत्मनः पार्श्वे ॥३३॥ प्रतिदिवसमेव वर्धते विभवः सूरस्य, केशवस्य पुनः । तथा क्षीणो यथा भोजनमात्रं कृच्छ्रेण संपद्यते ॥३४॥ ददतोऽपि नो गृह्णाति सूरस्यायं धनादि स्तोकमपि । इति तस्मिन् क्षीणविभव आगता प्रावृट् क्रमशः ॥ ३५॥ गर्जगभीरघनगुरुगजघटाटोप प्रकटितप्रतापः । उच्छलति ग्रीष्मनिधनैकविक्रमः प्रावृड्राजः ॥ ३६ ॥ बहलबनकृष्णजलधरान्धकारितसकलगगनदिक्चक्रायाम् । नच ज्ञायते क्व गतो विजृम्भितायां प्रावृषि ग्रीष्मः ॥ इति प्रावृषा कर्णिकारयित्वा वर्षन्मेत्रधाराभिः । निर्वापितं भुवनतलं मुक्त्वा विरहिहृदयानि ॥ ३८ ॥ ततः सूरहालिकेषु गृहीत्वा हलानि क्षेत्रचलितेषु । हलयोक्त्रककरणार्थं श्रीवत्सं केशवो भणति ॥ ३९॥ वयमपि खलु योजयानो हलानि, स भणत्यद्य भद्रायाम् । एते कुर्वन्ति, अस्माकं जानतां न तद्युक्तम् ॥ अथ सूरहालिकानामत्यद्भुतनर्तनीं नटीं मागें । द्रष्टुमाक्षिप्तानां भद्राया अतिक्रान्तः प्रहरः ॥ ४१ ॥
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org