________________
उम्मग्गदेसणाण उम्मग्गानदंसियत्थकारीणं । संसम्गी दुहजणया जायइ जह भीमकुमरस्स ॥१॥ तथाहि;-- कविसीसयविउलदले जिणहरकेसरविरायमाणम्मि । गुणिगुणगणगंधड्ढे धरणीसरसीए कयसोहे ॥२॥ कमलम्भिव कमलपुरे राया रिउकरडिविहडणपयंडो । जयपयडपुरिसयारो हरिव्य हरिवाहणो आसि ॥३॥ तस्सत्थि पिया वीयाचंदकलानिक्कलंकतणुलझ्या । देवी मालइनामा मालइमालव्व सुगुणड्ढा ॥४॥ वरसुमिणसूइयं सा सुयं पम्या सुलक्षणोवेयं । सपयावकंतिकलियं दिणयरबिंबंध पुव्वदिसा ॥५॥ पुव्वपुरिसक्कमागयनामं पुत्तस्स बारसाहम्मि । सम्माणिय सव्वजणं दिन्नं भीमोत्ति पियरेहिं ॥६॥ अह कमसो सो वड्ढइ कलाकलावेण देहकंतीहिं । सियपक्खससहरो इव कयजणमणलोयणाणंदो ॥७॥ बुद्धिलमंतिस्स सुओ तस्स य सहपसुकीलिओ मित्तो । बुद्धिमयरहरनामा जाओ मंती समाणवओ ॥८॥ अह अन्नदिण नियमंदिराओ कुमरो पहायसमयम्मि । बुद्धिमयरहरसहिओ संपत्तो रायपयमूले ॥९॥ पणमइ निवपयकमलं तेणवि आलिंगिउं निउच्छंगे । खणमेक्कं संठविओ पच्छा उचियासणासीणो ॥१०॥ नरनाहचरणजुयलं नियए अंकम्मि करिवि सप्पणयं । कमलदलकोमलेहिं करेहिं संवाहणं कुणइ ॥११॥. भत्तिभरनिन्भरंगो निसुणइ जणयस्स सासणं जाव । तो आरामनिउत्तो पत्तो विनवइ नरनाहं ॥१२॥ देविंदविंदवंदियपयारविंदोऽरविंदमणिनाहो। सीसगणसंपरिवुडो पत्तो कुसुमागरुज्जाणे ॥१३॥ तं सोऊणं राया हरिसवसविसप्पमाणरोमंचो । दाऊण मउडवजं तस्स समग्गंपि आभरणं ॥१४॥
उन्मार्गदेशनानामुन्मार्गनिशितार्थकारिणाम् । संसक्तिर्दुःखजनिका जायते यथा भीमकुमारस्य ॥१॥ कपिशीर्षकाविपुलदले जिनगृहकेसरविराजमाने । गुणिगुणगणगन्धाढ्ये धरणीसरस्याः कृतशोभे ॥२॥ कमल इव कमलपुरे राजा रिपुकरटिविघटनप्रचण्डः । जगत्प्रकटपुरुषकारो हरिरिव हरिवाहन आसीत् ॥३॥ तस्यास्ति प्रिया द्वितीयाचन्द्रकलानिष्कलङ्कतनुलतिका । देवी मालतीनामा मालतीमालेव सुगुणाढ्या ॥४॥ वरस्वप्नसूचितं सा सुतं प्रसूता सुलक्षणापेतम् । सप्रतापकान्तिकलितं दिनकरबिम्बमिव पूर्वदिक् ॥५॥ पूर्वपुरुषक्रमागतनाम पुत्रस्य द्वादशाहे । सम्मान्य सर्वजनं दत्तं भीम इति पितृभ्याम् ॥६॥ अथ क्रमशः स वर्धते कलाकलापेन देहकान्तिभ्याम् । सितपक्षशशधर इव कृतजनमनोलोचनानन्दः ॥७॥ बुद्धिलमन्त्रिणः सुतस्तस्य च सहपांशुक्रीडितो मित्रम् । बुद्धिमकरगृहनामा जातो मन्त्री समानवयाः ॥८॥ अथान्यदिने निजमन्दिरात् कुमारः प्रभातसमये । बुद्धिमकरगृहसहितः संप्राप्तो राजपादमूले ॥९॥ प्रणमति नृपपादकमलं तेनाप्यालिङ्ग्य निजोत्सङ्गे । क्षणमेकं संस्थापितः पश्चादुचितासनासीनः ॥१०॥ नरनाथचरणयुगलं निजेऽङ्के कृत्वा सप्रणयम् । कमलदलकोमलाभ्यां कराभ्यां संवाहनां करोति ॥११॥ भक्तिभरनिर्भराङ्गः शृणोति जनकस्य शासनं यावत् । तत आरामनियुक्तः प्राप्तो विज्ञपयति नरनाथम् ॥१२॥ देवेन्द्रवृन्दवन्दितपादारविन्दोऽरविन्दमुनिनाथः । शिष्यगणपरिवृतः प्राप्तः कुसुमाकरोद्याने ॥१३॥ तत् श्रुत्वा राजा हर्षवंशावसपद्रोमाञ्चः । दत्त्वा मुकुटवर्ज तस्मै समग्रमप्याभरणम् ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org