________________
Jain Education International
±±±±±±±±±±±±±±
प्र या म॑हि॒म्ना म॒हिन॑सु॒ चेकते द्यु॒म्नेभि॑र॒न्या अ॒पस॑म॒पस्तमा । रथ॑ इव बृह॒ती वि॒िभ्वने॑ कृ॒तोप॒स्तुत्या चिकितुषा सर॑स्वती ॥ १३ ॥ सर॑स्वत्यभि नौँ नेषि वस्यो माप॑ स्फरीः पय॑सा मा न आ धक् । जुषस्व नः स॒ख्या वे॒श्या च॒ मा त्वत् क्षेत्राण्यर॑णानि गन्म ॥ १४ ॥ प्रक्षोद॑सा धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी पूः । प्र॒बाब॑धाना र॒थ्ये॑व याति॒ विश्वा अ॒पो म॑हिना सिन्धुर॒न्याः ॥ १५ ॥ एकाचेतत् सर॑स्वती नदीनां शुचि॑र्य॒ती गिरिभ्य आ समुद्रात् । रा॒यश्चेत॑न्ती भुव॑नस्य भूरे॑र्धृतं पयो॑ दुदुहे नाहु॑षाय ॥ १६ ॥
स व॑वृ॒धे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु॑र्वृष॒भो य॒ज्ञिय॑सु । स वा॒जिन॑ म॒घव॑द्भयो दधाति॒ि वि सा॒तये॑ त॒न्व मामृजीत ॥ १७ ॥ उ॒त स्या नः सर॑स्वती जुषा॒णोप॑ श्रवत् सु॒भगा॑ य॒ज्ञे अस्मिन् । मितनु॑भिर्नम॒स्यैरियाना राया यु॒जा चिदुत्त॑रा॒ सखिभ्यः ॥ १८ ॥ इ॒मा जुह्वा॑ना यु॒प्मदा नमो॑भिः प्रति स्तोमैं सरस्वति जुषस्व । तव शर्म॑न् प्रि॒यत॑मे॒ दधा॑ना॒ उप॑ स्थेयाम शरणं न वृक्षम् ॥ १९ ॥ अय ते सरस्वति॒ि वसि॑ष्ठ॒ो द्वारा॑वृ॒तस्य सु॒मने॒ व्या॑वः । वर्धे शुभ्रे स्तुवते रा॑सि॒ वाजा॑ यु॒यं पा॑त स्वस्तिभिः सदा नः ॥ २० ॥
बृ॒हद॑ गायत्रे॒ वचो॑ ऽसु॒यी न॒दीनाम् । सर॑स्वती॒मिन्महया सुवृ॒क्तिभिः स्तोमै॑र्व सिष्ठ॒ रोद॑सी ॥ २१ ॥ उ॒भे यत् ते॑ महिना शुभे अन्धसी अधिक्षियन्ति पूर्वः । सा नो॑ बोध्यवित्री म॒रुत्सखा चोद् राधे॑ म॒घोना॑ ।। २२ ।। भ॒द्रमिद् भ॒द्रा कृ॒णव॒त् सर॑स्वत्यक॑वारी चेत वा॒जिनी॑वती । गृ॒णाना जमदग्निवत् स्तुवाना च॑
112
For Private & Personal Use Only
www.jainelibrary.org