________________
श्वेताब्जपूर्णविमलासनसंस्थिते हे-श्वेताम्बरावृतमनोहरम - गात्रे। उद्यन्मनोज्ञसितपङ्कजम लास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥८॥
मातस्त्वदीयपदपाजभक्तियुक्ता-ये त्वां भजन्ति निखिलानपरान्विहाय। ते निर्जरत्वमिह यान्ति कलेवरेण-भूवह्निवायुगगनाम्बुविनिर्मितेन ॥९॥
मोहान्धकारभरिते हृदये मदीये-मात: सदैव कुरु वासमुदारभावे। स्वीयाखिलावयवनिर्मलसुप्रभाभि:-शीघ्रं विनाशय मनोगतमन्धकारम् ॥१०॥ ___ ब्रह्मा जगत् सृजति पालयतीन्दिरेश:-शम्भुर्विनाशयति देवि तव प्रभावैः । न स्यात्कृपा यदि तव प्रकटप्रभाव न स्यु: कयश्चिदपि ते निजकार्यदक्षाः ॥११॥
लक्ष्मीर्मेधा धरा पुष्टिगौरी तुष्टिः प्रभा धृतिः । एताभिः पाहि तनुभिरष्टाभिर्मा सरस्वति ॥१२॥ ___ सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नमः। वेदवेदान्तवेदाङ्गविधास्थानेभ्य एव च ॥१३॥
सरस्वति महाभागे विद्ये कमललोचने। विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ॥१४॥
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥१५॥
109
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org