________________
गणिततिलकम्
[श्रीपतित्यादिना पश्चाशीत्यधि(क)नवशती व्यधि(क)शतच्छेदा गुणिता जाताख्यशीतिसहस्राः सप्तशती पञ्चविंशतिश्च । द्विच्छेदगुणब्यधि(क)शतेन जातचतुरुत्तरद्विशतिकेन भागे लब्धं दशाधि(क)चतुःशती। शेषमुपरि पश्चाशीतिः, अधश्च चतुरुत्तरद्विशती । अनयोः सप्तदशभिरपवर्ते उपरि पञ्च, अधश्च द्वादश, यथा ५ { ४१९} । एतन्नवमासैः समग्रव्याजं भवति । अस्य च संवादनाय एकोनपञ्चाशत्पञ्चविंशतेर्गतसमयफलैक्यरूपायाः प्रायदृष्टद्वादशच्छेदैर्भागे लब्धं दशाधि(क)चतुःशती, द्वादशानां च पञ्च भागाः, यथा { ४१९} । एतद् व्याजं गृहीत्वा धनी तदिनप्रभृति एकपत्रं करोति ॥ एकपत्रीकरणं समाप्तम् ॥
अथ विभिन्नग्राहकप्रदत्तविषमकालधनखण्डानां समीकरणाय करणसूत्रं १० वृत्तमाह
व्यस्तांशहारैः पृथगेकरूप
लाभैर्विमिश्रवसमाहतैश्च । स्वकीययोगेन हृतैर्भवन्ति
प्रयुक्तराशेः खलु खण्डकानि ॥' व्याख्या-अत्रैक एकखण्डे कालसङ्ख्याद्वयं प्रमाणराशिः फलधनं चेति चतुष्टयं अंशहारशब्देनोक्तम् । तत् प्रत्युत्पन्नरीत्या विपर्ययगुणैरंशहारैः पृथग् व्यवस्थितैरेकरूपलाभैः-जातैकद्रम्मव्याजैमिश्रधनसमाहतैश्च स्वकीययोगहतैःविन्यस्तसवर्णितशतादिधनयोगहतैः प्रयुक्तराशेः-प्रदत्तधनराशेः खलु खण्ड
कानि विषमव्याजपरिहृत्या समव्याजानि भवन्तीति सम्बन्धः॥ २० अत्रोदाहरणमाह
शतद्वयं यद् दशभिर्विहीनं १९०
खण्डैस्त्रिभिर्गाणितिक ! प्रयुक्तम् । त्रिके द्विके चाथ शते चतुष्के
मासैर्गतैर्द्वित्रिचतुर्भिरेषाम् ॥ फलानि दृष्टानि समानि शीघ्र
पृथक्प्रमाणं खलु खण्डकानाम् ॥ १२५ ॥ न्यासः- १.० १३०० ६६.१.३/४} मिश्रधनं १९० । अथ प्रत्युत्पन्नविधिः, परं व्यस्तांशहारिणी । तथाहि शतेन-प्रमाणधनेनाधस्तनेन उपर्यङ्को मास एको गुणितो जातं शतम् । तथा ऊोकेन त्रिमासलक्षणेन शताधःफलधनं द्वौ गुणिता
१-२ उपजातिः । ३ उपेन्द्रवज्रा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org