________________
--
--
प२. . )
७८ गणिततिलकम्
[श्रीपतिदिदि न्यासः-२ कः कः । अत्र विंशतिमपरपक्षमानीय यथा { } सर्वत्र एकस्यैव छेदत्वात् न व्यत्यये किमपि फलमिति न छैदव्यत्ययः । ततः प्रापक्षे द्विगुणास्त्रयो जाताः पट् । द्विपक्षे पञ्चगुणा अष्टौ जाता चत्वारिंशत् । अनया
गुणिता विंशतिर्जाता अष्टशती । अस्याः षड्भिोगे लब्धं पणास्त्रयस्त्रिंशद५धि(क)शतम् , यथा १३३ । शेपमुपरि द्वौ, अधः षट् । अनयोरर्धापवते क्रमादेकस्त्रयश्च, यथा {3} ॥ अथ कणविषये चतुर्थमुदाहरणमाह
अष्टौ शालेौनिका भाटकेन
नीयन्ते चेद् योजनं षट्पणेन । तस्मिन् (? हि ) विद्वन् ! ब्रूहि मानीत्रिषष्टेः
षट्क्रोशानां भाटकं त्र्याहतानाम् ॥ १०१॥'
(मा ) न्यासः- को क्रो१८ है । अत्र षट्कं फलमपरं पक्षमानीय यथा {१४} एकस्यैव सर्वत्र छेदत्वान्न व्यत्ययः। ततः प्रापक्षे अष्टगुणाश्चत्वारो जाता द्वात्रिंशत् । द्विपक्षे त्रिषष्टिगुणा अष्टादश जाता चतुस्त्रिंशदधि(का) एकादशशती । इयं षड्गुणा जाता षट्सहस्रा अष्टशती चत्वारश्च । एषां द्वात्रिंशता भागे लब्धं रूपाणि द्वादशाधि(क)द्विशती, यथा { २१२ } । शेषमुपरि विंशतिः, अधश्च द्वात्रिंशत् । अनयोश्चतुर्भिरपवर्ते क्रमात् पश्चाष्टौ, यथा {} । एवं पञ्चराशिकं समाप्तम् ।।
पश्चराशिलक्षणेन “आनीय पक्षमपर"मित्यादिना सप्तनवैकादशराश्युदाहरणानि जायन्ते अत्र । तथा च लीलावत्याम्
"पञ्चसप्तनवराशिकादिके-ध्व(?ऽन्यो)न्यपक्षनयन फलच्छिदाम् ।
संविधाय बहुराशिजे वधे, स्वल्पराशिवधभाजिते फलम् ॥ अथ सप्तराशिके उदाहरणमाह
द्विकव्यासोऽष्टकायामः, कम्बलो लभते दश।
अन्यौ द्वौ बिनवायामो, किमानतः कथ्यताम् ॥ १०२॥ १ शालिनी। २ प्रेक्ष्यतामष्टादशं पृष्ठम् । ३ रथोद्धता । ४ अनुष्टुप् (?)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org