________________
गणिततिलकम्
[ श्रीपतिएवं विपरीतोदेशके दृश्याददृश्यं अदृश्याद दृश्यं आनीतमिति विपरीतो. द्देशकः समाप्तः । एतावता एकत्रिंशत् परिकर्माणि समाप्तानि ॥ अथ द्वात्रिंशत्तमं त्रैराशिकमारभ्यते । तत्र करणसूत्रं वृत्तमाह
प्रमाणमादौ विरमे त्वभीप्सा — फलं च मध्ये क्रियतेऽन्यजातिः। फलं प्रमाणेन भजेनिहत्य ।
समिच्छया व्यस्तविधिश्च वामे ॥ ८६ ॥' व्याख्या-वस्तुसङ्ख्या वा मूल्यसङ्ख्या वा या आदौ लिख्यते उच्यते तत् प्रमाणसझं स्यात् । विरमे-पर्यन्ते वस्तुसङ्ख्या मूल्यसङ्ख्या वा उच्यते सा १० अभीप्सा-इच्छासज्ञा । परमादौ विरमे च सदृशजातिरेव कार्या । अयमर्थः
यद्यादौ वस्तुसङ्ख्या तदा पर्यन्तेऽपि वस्तुसङ्ख्यैव । तथा यद्यादौ मूल्यप्रमाणं तदा पर्यन्तेऽपि द्रव्यसङ्ख्यैव कार्या । अनयोः प्रमाणाभीप्सयोर्मध्येऽन्यजातिः फलसझं कार्यम् । यद्यादौ अन्ते च वस्तु तदा मध्ये, यदा वा आदावन्ते च
मूल्यसङ्ख्या तदा मध्ये वस्तुसङ्ख्या कार्या । इयं लिखनीया । एषा रीतिः १५ भक्ता। ततः समिच्छया-पर्यन्ताङ्केन फलं-मध्याकं निहत्य-गुणयित्वा प्रमाणेन भागहाररीत्या "कृत्वा परीवर्तन"मित्यादिकया आद्याङ्केन भजेत्-भागं ग्राहयेत् । यल्लब्धं तदिच्छाफलं स्यात् । तथा वामे-व्यस्तत्रैराशिके [व्यस्तत्रैराशिके] च 'लीलावत्यामुक्तम्-यत्रेच्छावृद्धौ मूल्यस्य हासो हासे वा वृद्धिस्तत्र व्यस्तत्रैराशिकम् । तद्यथा___"जीवानां वयसो मूल्ये, तौल्ये वर्णस्य हेमनि ।
भिन्नहारे च राशीनां, व्यस्तत्रैराशिकं भवेत् ॥१४ इति परिच्छिन्नवामविधौ व्यस्तविधिः । प्रागुक्तवैपरीत्यं प्रमाणेन मध्यावं निहत्य समिच्छया-अन्त्याङ्केन विभजेदिति लक्षणं कार्यम् । अत्रोद्देशकवृत्ते प्रथमोदाहरणमाह
कस्तूरिकायाः पलमधयुक्तं
द्रम्मैयदि द्वादशभिः सपादैः। अवाप्यते त्र्यंशयुतानि सप्त
तदा लभन्ते किमहो पलानि? ॥ ८७ ॥ १ उपेन्द्रवज्रा २ प्रेक्ष्यतामष्टादशं पृष्ठम् । ३ 'हैमने। भागहारे च राशीनां व्यस्तं त्रैराशिक' इति लीलावत्यां पाठः। ४ अनुष्टुप् । ५ उपजातिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org