SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ गणिततिलकम् [श्रीपतिअत्रोदेशकवृत्ते उदाहरणमाहयः पश्चन्नो नवभिरधिको मूलभावं प्रपन्नो द्वाभ्यामूनस्तदनु कृतितां प्रापितो रूपहीनः । भक्तोऽष्टाभिर्गणक! नियतं त्रीणि रूपाणि जातः ___ कोऽसौ राशिर्भवति वद मे वेत्सि चेन्मित्र! पाटीम्॥८४॥' न्यासेनैवास्य व्याख्या-{गु०५ध-मू ऊरकृति हीन भागु-दृश्यरूप} । अत्र विपरीतोद्देशकत्वात् प्रतिलोमतस्त्रयोऽष्टगुणा जाता चतुर्विंशतिः । तन्मध्ये रूप एकक्षेपे जाता पञ्चविंशतिः । अस्या मूलं पश्च द्वाभ्यां युक्ताः सप्त । एषां कृतिरेकोनपञ्चाशत् । नवहीना जाता चत्वारिंशत् । अस्याः पञ्चभिर्भागे लब्धं रूपा•ण्यष्टौ, यथा ८॥ अस्य घटना-क्रमेणैव यो गुणः स गुणः हरस्तु हर एवेत्यादिना, तथाहिअष्टौ पञ्चगुणा जाता चत्वारिंशत् । नवभिरधिको जाता एकोनपञ्चाशत् । अस्य मूलं सप्त। द्वाभ्यामूना जाताः पञ्च । एतत्कृतिः पश्चविंशतिः । रूपहीना चतुर्विंशतिः । अष्टभक्ता लब्धं दृश्यरूपत्रयं प्रागुक्तम् ॥ १५ लीलावत्यां तु भागाधिकोनप्रक्रिया दर्शिता, तथाहि___ "छेदं गुणं गुणं छेदं, वर्ग मूलं पदं कृतिः (१ तिम्)। ऋणं खं खं ऋणं कुर्याद्, दृश्यराशिप्रसिद्धये ॥" स्पष्टः। ४"अथ खांशेऽधिकोने तु, लवाल्योनो हरो हरः । अंशस्त्वविकृतस्तत्र, विलोमे शेषमुक्तवत् ॥"" व्याख्या-खांशे अधिक स्वचरणाद्यन्विते हरश्छेदो लवाढ्यख्याधन्वितश्चतुकस्तेनोनू(१ नो)लच्छेदो गुणनीयः। पश्चादूवाशगुणनायां विलोमरीत्या अधिको यत्र तत्र हीन इति ज्ञेयम् । यः क्षिप्तोऽङ्कश्छेदान्तस्तमेवाङ्कमाकृष्य स गुणकः कार्य इत्येकं तत्त्वम् । यदा तु खांशे ऊने स्वयंशादिहीने तदा हरच्छेदः स्खल२५ वैरूनः कार्यः । तेन तूर्ध्वच्छेदो गुणनीयः। पश्चादूर्वाशगुणनायां विलोमत ऊनस्थाने इत्युक्त इति ज्ञेयम् । ततो लवयुक्ताधश्छेदो गुणका कार्यः, परं अंशस्तु अविकृतो न भञ्जनीयः । शेषमुक्तवत् छेदं गुणं गुणमित्यादि तथैव ॥ १ मन्दाक्रान्ता । २,४ प्रेक्ष्यतां नवमं पृष्ठम् । ३,५ अनुष्टुप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy