________________
201
आध्यात्मिक पूजन-विधान संग्रह
विशिष्ट-खण्ड
मंगल पंचक
__ - पण्डित पन्नालालजी
(हरिगीतिका) गुणरत्नभूषा विगतदूषाः सौम्यभावनिशाकराः, ___ सद्बोध-भानुविभा-विभाषितदिक्चया विदुषांवराः। निःसीमसौख्यसमूह मण्डितयोगखण्डितरतिवराः,
कुर्वन्तु मंगलमत्र ते श्री वीरनाथ जिनेश्वराः॥१॥ सध्यानतीक्ष्ण-कृपाणधारा निहतकर्मकदम्बका,
देवेन्द्रवृन्दनरेन्द्रवन्धाः प्राप्तसुखनिकुरम्बकाः। योगीन्द्रयोगनिरुपणीयाः प्राप्तबोधकलापकाः,
कुर्वन्तु मंगलमत्र ते सिद्धाः सदा सुखदायका ॥२॥ आचारपंचकचरणचारणचुंचवः समताधराः,
नानातपोभरहेतिहापितकर्मका: सुखिताकराः। गुप्तित्रयीपरिशीलनादिविभूषिता वदतांवरा:,
कुर्वन्तु मंगलमत्र ते श्री सूरयोऽर्जितशंभराः ॥३॥ द्रव्यार्थ भेदविभिन्नश्रुतभरपूर्ण तत्त्वनिभालिनो,
दुर्योगयोगनिरोधदक्षा: सकलवरगुणशालिनः । कर्तव्यदेशनतत्परा विज्ञानगौरवशालिनः,
कुर्वन्तु मंगलमत्र ते गुरुदेवदीधितिमालिनः॥४॥ संयमसमित्यावश्यका-परिहाणिगुप्तिविभूषिताः,
पंचाक्षदान्तिसमुद्यता: समतासुधापरिभूषिताः। भूपृष्ठविष्टरसायिनो विविधर्द्धिवृन्द विभूषिताः,
कुर्वन्तु मंगलमत्र ते मुनयः सदा शमभूषिताः॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org