________________
सूत्रप्राभृतं । करोति । ठाणे हियसम्मत्तं एकादशस्वपि स्थानेषु सम्यक्त्वपूर्वको भवति । परलोयसुहंकरो होइ स्वर्गसौख्यं साधयति षोडशसु स्वर्गेध्वन्यतमस्वर्गे उत्पद्यते ततश्च्युत्वा निम्रन्थो भूत्वा मोक्षं गच्छति ।
अह पुण अप्पा णिच्छदि धम्माई करेदि निरवसेसाई । तह वि ण पावदि सिद्धिं संसारत्थो पुणो भणिदो ॥१५॥
अथ पुनः आत्मानं नेच्छति धर्मान् करोति निरवशेषान् ।
तथापि न प्राप्नोति सिद्धिं संसारस्थः पुनः भणितः ॥ अह पुण अप्पा णिच्छदि अथ अथवा पुनरात्मानं नेच्छति आत्मभावनां न करोति । धम्माई करेइ निरवसेसाई धर्मान् करोति निरवशेषान् दानपूजातपःशीलादिकानि निरवशेषाणि समस्तानि पुण्यानि करोति । तह वि ण पावदि सिद्धिं तथापि पुण्यकर्मप्रकारेणापि सिद्धिं मुक्तिं न प्राप्नोति । संसारत्थो पुणो भणिदो संसारस्थः पुनर्भणितः संसारी भवतीति सिद्धान्ते प्रतिपादितं । उक्तं च देवसेनेन भगवता
अंइकुणउ तवं पालेउ संजमं पढउ सयलसत्थाई । जाम ण झावई अप्पा ताम ण मोक्खं जिणो भणई ॥१॥ एएण कारणेण य तं अप्पा सद्दहेह तिविहेण । जेण य लहेह मोक्खं तं जाणिज्जह पयत्तेण ॥१६॥
एतेन कारणेन च तं आत्मानं श्रद्धत्त त्रिविधेन ।'
येन च लभेध्वं मोक्षं तं जानीत प्रयत्नेन ॥ एएण कारणेण य एतेन प्रत्यक्षीभूतेन कारणेन हेतुना । चकार उक्तसमुच्चयार्थः, बहिस्तत्वभूतपंचपरमेष्ठिकारणसूचनार्थ इत्यर्थः । तं अप्पा सद्दहेह तिविहेण तमात्मानं शुद्धबुद्धकस्वभाव
१ अतिकरोतु तपः पालयतु संयमं पठतु सकलशास्त्राणि । यावन्न ध्यायति आत्मानं तावन्न मोक्षं जिनो भणति ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org