________________
४८
पट्प्राभूते
"चतुरो यदीयौ च लोपश्चेति" सूत्रसाधुत्वात् । पंचम संगम्मि विरई य पंचमं महाव्रतं भवति । का संगे परिग्रहे विरतिश्च परिग्राहद्विरमणमित्यर्थः । सार्हति जं महल्ला आयरियं जं महल्लपुव्वेहिं | जं च महल्लाणि तदो महल्लया इत्तहे याई || ३० ॥ साधयन्ति यन्महान्तः आचरितं यद्महत्पूर्वैः ।
यच्च महान्ति ततः महाव्रतानि एतस्माद्धेतोः तानि ।
साहंति जं महल्ला साधयन्ति यद्यस्मात्कारणात्प्रतिपालयन्ति । के ते, महल्ला - महान्तो गुरूणामपि गुरवः पुरुषाः । आइरियं जं महलपुव्वेहिं आचरितमादृतं वा यद्यस्मात्कारणात् महलपुव्वेहि-महद्भिः गुरुभिः पूर्वैः चिरन्तनाचार्यैः वृषभादिभिर्महावीरपर्यन्तैः वृषभसेनगौतमान्तगणधरैश्व जम्बूस्वामिपर्यन्तैश्च । जं च महल्लाणि यच्च यस्मात्कार - णात् महल्लाणि-स्वयं महान्ति गुरुतराणि । तदो महल्लया इत्तहे ततस्तस्मात्कारणात् इत्तहे- एतस्माद्धेतोः तानि महाव्रतानीत्युच्यन्ते ।
1
वयगुत्ती मणगुत्ती इरियासमदी सुदाणणिक्खेवो । अवलोय भोयणाए हिंसाए भावणा होंति ।। ३१ ॥
वचोगुप्तिः मनोगुप्तिः ईयीसमितिः सुदाननिक्षेपः । अवलोक्यभोजनेन अहिंसाया भावना भवन्ति ॥
वयगुत्ती वचोगुप्तिरेका । मणगुत्ती मनोगुप्तिर्द्वितीया भावना । इरियासमिदी ईर्यासमितिस्तृतीया भावना | सुदाणणिक्खेवो आदाननिक्षेपः पुस्तककमण्डल्वादिकमुपकरणं पूर्व विलोक्य मृदुना मयूरपिच्छेन प्रतिलिख्य गृह्यते म्रियते च सुदाननिक्षेप उच्यते । अवलोयभोयणाए अवलोक्य पुनः पुनः दृष्ट्वा भोजनं क्रियतेऽवलोक्य भोजनं तेनावलोक्यभोजनेन । प्राकृते लिंगभेदः नपुंसकस्य स्त्रीत्वं । एता अहिंसामहाव्रतस्य पंचभावना भवन्तीति वेदितव्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org