SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूते सम्मदंसणि पस्सइ जाणदि णाणेण दव्वपज्जाया। सम्मत्तगुणविसुद्धो भावो अरुहस्स णायव्यो ।। ४१॥ सम्यद्गर्शनेन पश्यति जानाति ज्ञानेन द्रव्यपयायान् । सम्यक्त्वगुणविशुद्धः भावः अर्हतः ज्ञातव्यः ॥ सम्मदंसणि पस्सइ सम्यग्दर्शनेन पश्यति सम्यनिस्तुषतया दर्शनेन सत्तारूपलक्षणेन पश्यति वस्तुस्वरूपं गृह्णाति । जाणदि णाणेण दव्वपज्जाया जानाति ज्ञानेन केवलज्ञानन विशेषगोचरेण साकाररूपेण सम्यग्जानाति द्रव्याणि जीवपुद्गलधर्माधर्मकालाकाशलक्षणानि । सम्मत्तगुणविसुद्धो सम्यक्त्वगुणेन क्षायिकसम्यक्त्वेन विशुद्धो निर्मलः । भावो अरुहस्स णायव्यो भावः स्वरूपं अर्हतः सर्वज्ञस्य ज्ञातव्यो वेदितव्यः । अरहंत--इति श्रीबोधामृतेऽर्हदधिकारो दशमः समाप्तः ।१०। अथेदानी प्रव्रज्यास्वरूपं निरूपयन्ति श्रीकुन्दुकुन्दाचार्याः सप्तदशगाथाभिरिति-- सुण्णहरे तरुहितु उज्जाणे तह मसाणवासे वा । गिरिगुहगिरिसिहरे वा भीमवणे अहव वसिते वा ॥४२॥ शून्यगृहे तरुमूले उद्याने तथा इमशानवासे वा । गिरिगुहागिरिशिखरे वा भीमवने अथवा वसतौ वा ॥ सुण्णहरे तरुहिहे शून्यगृहे निवासः कर्तव्यः प्रव्रज्यावतेत्युपस्कारः । तरुहितु-वृक्षमूले स्थातव्यं । उज्जाणे उद्याने कृत्रिमवने स्थातव्यं । तह मसाणवासे वा तथा श्मशानवासे वा पितृवनस्थाने स्थातव्यं । गिरि गुहगिरिसिहरे वा गिरगुह-गिरेगुहायां स्थातव्यं, गिरिशिखरे वा पर्वतोपरि स्थातव्यं । भीमवणे अहव वसिते वा भीमवने भयानकायाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy