________________
७२
युक्त्यनुशासनं ।
व् । तेषां पुरुषात्पृथग्भावे वा स एव दोषः स्यात् भोक्तृत्वादिभ्योऽन्यस्य भोक्तृत्वादिविरोधात् । प्रधानवदपृथक्त्व पृथक्वा भ्यामवचनीयत्वे च न कर्त्तात्मा भोक्तृत्वादेर्नापि भोक्तृत्वादिः कार्य पुरुषस्येति नोदाहरणं साध्यसाधन विकलं कर्तृकार्यत्वाभा वसाधनस्य विकाराभावस्य साध्यस्य पृथक्त्वापृथक्त्वावचनीयत्वस्य च साधनस्य सद्भावात्, ततो यत्रानन्यत्वान्यत्वाभ्यामवचनीयता तत्र विकारहानिः साध्यते । यत्र च विकारहानिस्तत्र कर्तृकार्यत्वाभाव इति कालान्तरस्थेऽपि महदादौ न कर्तृकायें है पृथक्त्वा पृथक्त्वावचनीयताया विकारहानेरिति वाक्यभेदेनापृथ क्त्वे पृथक्त्वे च व्यक्ताव्यक्तयोरपृथक्त्व पृथक्त्वाभ्यामवचनीयतायां चेति पक्षत्रयेऽपि दूषणं योजनीयम् । तथा च सांख्यानामपि जिन ! तत्र विद्विषां वृथा श्रमः सकलो यमनियमास नप्राणायामप्रत्याहारध्यानधारणासमाधिलक्षणयोगांगानुष्ठानप्रयासः खेदो वृथैव स्याद्वैशेषिकनैयायिकानामिवेति वाक्यार्थः । तदेवं समतदोषं मतमन्यदीयमिति समर्थितं । जिन ! त्वदीयं मतमद्वितीयमिति प्रकाशितं च । ततस्त्वमेव महानितीयत्प्रतिवक्तुमीशा एव वयमिति प्रकृतसिद्धिः । साम्प्रतं चार्वाकमतमनूद्य दूषयन्ति - मद्यांगवद् भूतसमागमे ज्ञः शक्त्यन्तरव्यक्तिरदैवसृष्टिः । इत्यात्म शिश्नोदरपुष्टितुष्टै
Jain Education International
For Private & Personal Use Only
14
२१
www.jainelibrary.org