SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । , सुखदु:खे पुंस एवेति नियमः सिध्येत् । तयोः पुंसि समवात्यात्पुंस एव सुखदुःखे न पुनः खादेरिति चेत्, कुतस्तयोः पुंस्येव समवायः स्यात् । मयि सुखं दुःखं चेति बुद्धेरिति चेत् सा तर्हि बुद्धिः पुनरात्मन्येवेति कुतः सिध्येत् । समवायादिति चेत्, कुतस्तस्यास्तत्रैव समवायो न च नगनादाविति निश्चेतव्यं । मयि बुद्धिरिति बुद्धयंतरादिति चेत्, तदपि बुद्धयंतरमात्मन्येवेति कुतः ? समवायादिति चेत्, कुतस्तस्यास्तत्रैव समवाय इत्यादि पुनरावर्त्तत इति चक्रकप्रसंग: । यस्य यबुद्धिपूर्वका विच्छाद्वेषौ तत्र तद्बुद्धेः समवाय इति चेत्, कुतः पुंस एव बुद्धिपूर्वकाविच्छाद्वेषौ न पुनः खादेर्गित निश्चय: १ पुंस एव प्रयत्नादिति चेत्, प्रयत्नोऽप्यात्मन एवेति कुतः संप्रत्ययः ? प्रवृनेरिति चेत् सा तर्हि प्रवृत्तिरुपादानपरित्यागलक्षणा कुशला वाकुशला वा मनोवाक्कायनिमित्ता प्रयत्नविशेषं बुद्धिपूर्वकमनुमापर्यंती पुंस एवेति कुतः साधयेत् १ शरीरादावचेतने तदसंभवात्पारिशेष्यादात्मन एव सेति चेत्, नात्मनोऽपि स्वयमचेतनत्वाभ्युपगमात् । चेतनासमवायादात्मा चेतन इति चेत्, न स्वतोऽचेतनस्य चेतनासमवाये खादिव्यपि तत्पसंगात् स्वतश्चेतनत्ये चेतनासमवायवैयर्थ्यात् । स्वरूपचेतनया साधारण रूपया चेतनस्य साधारण चेतनासमवाय इति चेत्, नासाधारणचेतनायाः पुंसोऽनर्थान्तरत्वे साधारणचेतनाया अध्यनर्थान्तरत्वमतिप्रसंगाच्चेतना विशेषसामान्ययोः पुंसस्तादात्म्य सिद्धौ च परमतानुसरणं दुर्निवारं । चेतनावि • 190 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy