SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ टोकासहितं । ५५ शून्यवादिवद्वेति वाक्यभेदेन व्याख्यातव्यं । परं हि सामान्यं सत्त्वं द्रव्यगुणकर्मभ्यो भिन्नमभिदधतां द्रवादीनामस स्यात्सच्चाद्भिन्नत्वात्मागभावादिवत् । ननु द्रव्यादीनामप्रतिपत्तौ हेतोराश्रयासिद्धिः प्रतिपत्तां धर्मिग्राहकप्रमाणबाधितः पक्षः कालात्ययापदिष्टश्च हेतुरिति चेत्, न द्रव्यादीनां धर्मिणां कथंचित्सत्त्वादभिन्नानां प्रत्यक्षादिप्रमाणतः सिद्धेस्तद्भेदैकांतसाधनायैव प्रयुक्तस्य हेतोः कालात्ययापदिष्टत्वसिद्धेः । ननु च सच्चाद् भिन्नत्वादित्येतस्य हेतोरप्रतिपतौ स्यादसिद्धलं प्रतिपतौ तु धर्मिय हकप्रमाणवाधितः पक्षो हेतुश्च कालात्ययो - दितः स्याद् द्रव्यादीनां सत्त्वादभेदग्रहणस्य द्रव्याद्य स्तत्वमतिपचिनान्तरीयकत्वात्तदसच्चे तदभेदप्रतिपत्तेरयोगादिति च न समीचीनं वचनं प्रसंगसाधनप्रयोगात् इति चेत् न सच्चाद्भिनत्वं हि प्रागभावादिषु परैः स्वयमसत्वेन व्याप्तं प्रतिपन्नं द्रव्यादिषु प्रतिपद्यमानमसचं साधयतीति साध्यसाधनयोर्व्याप्यव्यापकभावनिश्वये सति व्याप्याभ्युपगमस्य व्यापकाभ्युपगमनान्तरीयकस्य प्रदर्शनं प्रसंगसाधनमनुमन्यताम् । ननु च किं सच्चासमवायोऽसत्त्वं साध्यते किं वा नास्तित्वमिति पक्षद्वितयं । न तावदुत्तरः पक्षः श्रेयान्नास्तित्वेन सच्चाद्भिन्नत्वस्याव्याप्तत्वात् । प्रागभावादीनां सच्वाद भिन्नत्वेऽपि सद्भावादन्यथोदाहरणत्वविरोधात् । प्रथमपक्षे तु प्रमाणबाधः सच्वसमावायस्य द्रव्यादिषु प्रमाणतः प्रतीतेः सत्त्वासमवायस्य तया बाध्यमानत्वं । तथा हि-द्रव्यादीनि सत्तासमवायभांजि सत्प्रत्यय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy