SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ टोकासहितं। टीका-न च पहिरन्तश्च निरन्वयक्षणिकपरमाणुमात्रं तत्त्वं सौत्रान्तिकनिराकरणात् । नाप्यन्तःसंवित्परमाणुमात्रं संविदद्वैतमात्रं वा योगाचारमतनिरसनात् । किं तयभावमात्रं तत्त्वं माध्यमिकमतमेव परमार्थवृत्तेरभ्युपगम्यते । सा तु परमार्थवृत्तिः संहतिः न पुनः शून्यसंविचिस्तात्त्विकी यतः शून्यसंविदो विप्रतिषेधः स्यात् । तथाहि-सा परमार्थवृत्तिः संवृतिः सर्वविशेषशून्यत्वात्सर्वेषां विशेषाणां पदार्थसद्भाववादिभिरभ्युपगम्यमानानां तदभ्युपगमेनैव बाध्यपानानां व्यवस्थानासंभवादविद्याया एव प्रसिद्धः, बंधमोक्षावपि तस्या एव संवृतेरविद्यात्मिकाया: सकलतात्विकविशेषशून्याया अपि विशेषौ सांवृतौ सांतेनैव हेतुस्वभावेनात्मात्मीयाभिनिवेशेन नैरास्म्यभावनाभ्यासेन च विधीयमानौ न विरुद्धौ किलेति शून्यवादिमतसूचनं, तदेतद् त्वदनाथानां सर्वथा शून्यवादिनां वाक्य, न पुनस्त्वं भगवान् वीरो नाथो येषामनेकान्तवादिनां तेषामेतद्वाक्यं तैः स्वरूपादिचतुष्टयेन सतामेवाकल्पितास्मकानां पररूपादिचतुष्टयेनार्थानां शून्यत्ववचनात् । तदभावमात्रस्यापि स्वरूपेणासत्त्वे पारमार्थिकत्वविरोधात् । संविमात्रस्य शून्यस्य स्वरूपेण सत्वे पररूपेण ग्राह्यग्राहकभावादिना चासत्वे सदसदात्मकस्य कथंचिच्छून्यस्य सिद्धेः स्याद्वादिवाक्यस्यैव व्यवस्थानात् ततस्त्वदनाथवाक्यमव्यवस्थितमेव मृषेत्यर्थः। यथा न शून्यवादिनां शून्यं तत्त्वमनुपपन्नं तथाऽनेकान्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy