________________
युक्त्यनुशासनं । नवधार्यतत्त्वं प्रसज्यते तत्स्वरूपस्यावधारयितुमशक्यत्वात् । देहादनन्यत्वेन पृथक्त्वेन वा तस्यानवधारणे प्रोक्तदोषानुघंगात् तदुभयकल्पनयाप्यनवधार्यतत्वस्य प्रसिद्धरवक्तव्यत्ववत् । तथा च सकलवाग्विज्ञानगोचरातिक्रांतमात्मतत्त्वमित्यायातं! तत्र चानवधार्यतत्त्वे ज्ञतत्त्वे का बंधमोक्षस्थितिरप्रमेये सर्वथाऽनवधार्यतत्त्वं ह्यात्मतत्त्वमप्रमेयमापन्नं तत्र चाप्रमेये प्रत्यक्षादिप्रमाणाविषये ज्ञतत्वे का बंधमोक्षस्थितिर्वा संभाव्यते बंध्यापुत्रवत् न कापीत्यर्थः।
तदेवं नित्यैकांतात्मवादिमतं समंतदोषं व्यवस्थाप्य संप्र. त्यनित्यात्मवादिमतमपि समंतदोषमुपदर्शयितुमारभतेहेतुर्न दृष्टोऽत्र न चाप्यदृष्टो
योऽयं प्रवादः क्षणिकात्मवादः। न ध्वस्तमन्यत्र भवे द्वितीये
संतानाभन्ने नहि वासनाऽस्ति ॥११॥ टीका-योऽयं क्षणिकात्मवादः सौगतानां न ध्वस्तं चित्तमन्यत्र द्वितीये भवे क्षणे भवेदिति, स प्रवाद एव केवल: प्रमाणशून्यो वादः प्रवादः प्रलाप इत्यर्थः । कुत एतत्, योज क्षणिकात्मवादे हेतुपिकः कश्चिन्न विद्यते 'यत्सत्तत्सर्व क्षणिक' यथा शब्दविद्युदादिः संश्च स्वात्मेति स्वभावहेतुर्मापकोऽस्त्येवेति चेत, स तर्हि स्वयं प्रतिपत्रा दृष्टो वा स्याददृष्टो वा ? न तावत दृष्टः संभवति, तस्य दर्शनानन्तरमेव विनाशादनुमानकालेड
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org