SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासन प्रकृतस्य वाऽर्थस्य जात्यंतरस्यांजसस्य त्वदीयमतेन स्वीकरणादद्वितीयमेव तवेदं मतमनुमन्यामहे ततोऽज्यैरखिलैः प्रवादैरधृष्यत्वसिद्धः। ननु चास्तु स्वतंत्र द्रव्यमेकं खपुष्पसमानं प्रत्यक्षादिभिरनुपलभ्यमानत्वात् क्षणिकपर्यायवत् तदुभयं तु द्रव्यगुणकर्मसामान्यविशेषसमवायरूपं सत्तत्वं प्रागभावादिरूपमेवासत्तत्वं स्वतंत्रमपि कथं खपुष्पवत् स्यात्तस्य द्रव्यादिप्रत्ययविशेषविपयस्य सकलजनप्रसिद्धत्वादिति चेत्, न कारणकार्यद्रव्ययोर्गु. णगुणिनोः कर्मतद्वतोः सामान्यतद्वतोशेिष्यतद्वतोश्च पदार्थान्तरतया स्वतंत्रयोः सकृदयप्रतीयमानत्वात्सर्वदावयवावयव्यात्मनोर्गुणगुण्यात्मनः कर्मतद्वदात्मनः सामान्यविशेषात्मनथार्थतत्वस्य जात्यन्तरस्य प्रत्यत्तादितः सर्वस्य निर्बाधव-- भासनात् । स्यान्मतं, परस्परनिरपेक्षमपि पदार्थपंचकं समवायसंबंधविशेषवशात् परस्परात्मकमिवावभासतेऽनुत्पन्नब्रह्मतुलाख्यज्ञानातिशयानामस्मादृशामिति । तदपि न परीक्षाक्षम सर्वदाऽस्मदादिप्रत्यक्षस्य भ्रांतत्वप्रसंगात्तत्पूकानुपानादेरपि प्रमाणत्वानुपपत्तेरप्रमाणभूतात्मत्ययविशेषात्पदार्थविषयव्यवस्थापनासंभवात ; तथाऽभ्युपगम्यापि पर्यनुयुंज्महे-अवयवावयव्यादीनां समवायत्तिः पदार्थान्तरभूता ततो वृत्तिमती वा स्यादत्तिमती वा? न तावत् प्रथमकल्पना संभवति तत्र संयोगवृत्तेरयोगात्तस्या द्रव्यवृत्रित्वादन्यथा गुणत्ववद्विरोधात । नसमवायवृत्तिासमवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy