SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ टोकासहितं । 1 नित्यद्रव्यस्य कंचिदप्युपकारमकुर्वतामपि सहकारित्वमुररीक्रियते तेन सह संभूय कार्यकरणशीलानामेव सहकारित्वव्यवस्थितिरिति मतं, तदपि न नित्यद्रव्यस्य क्रमः सिद्धयेत् तस्याक्रपत्वात्; सहकारिणामेव क्रमवत्त्वात् । सहकार्यपेक्षः क्रमोऽपि द्रव्यस्यैवेति चेत् न, तस्याऽपि देशकृतस्य कालकृतस्य वा विरोधात् । तथा क्रमेण सहकारिणमपेक्षमाणस्य कालभेदादनित्यत्वप्रसंगात् कार्येणाऽपि क्रमेणापेक्षमाणस्य भेदापत्तेः सहकारिविशेषत्रत् ततो न क्रमः सर्वथा द्रव्यस्य संभवति । नाऽपि यौगपद्यं युगपदेकस्पिन्समये सकलार्थक्रियानिष्पादनादद् द्वितीयसमयेऽनर्थक्रियाकारित्वेनाऽवस्तुत्वप्रसंगात्; निष्पादित निष्पादनप्रसंगाद्वा । तदेवं द्रव्यान्नित्यात्मकात् क्रमयौगपद्ये निवर्तमाने स्वज्याप्यामर्थक्रियां निवर्तयतः, सा च निवर्त्तमाना वास्तवत्वमिति व्यापकानुपलब्धेर्बाधिकायाः संभवान्नासंभवद्वःधकत्वं द्रव्यस्य सिद्धं सौगतानां । नाऽपि पर्यायस्य क्षणिकस्यासंभवद्वाधकत्वं सिद्धयति तत्राऽपि व्यापकानुपलंभस्य बाधकस्य संभवात् । तथाहि - पर्यायो न वास्तवोऽर्थक्रियानुपलभात्, न तत्रार्थक्रियोपलंभः क्रमयौगपयविरोधात्, न तत्र क्रमयौगपद्ये संभवतः परिणामानुपलउधेः, न तत्र परिणः मोsस्ति पूर्वोत्तराकारव्यापिद्रव्य स्थितेरनुपलब्धेः न तत्र पूर्वोत्तराकारव्यापिद्रव्य स्थितिरस्ति प्रतिक्षयमुत्पादानन्तरं निरन्वयविनाशाभ्युपगमात् । न च तत्र क स्यचित्कुतश्चिदुत्पत्तिर्घटते सति कारणे कार्यस्योत्पत्तौ क्ष " Jain Education International For Private & Personal Use Only १६ www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy