SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ टीकासहितं। दयादमत्यागसमाधिनिष्ठं नयप्रमाणप्रकृतांजसार्थम् । अधृष्यमन्यैरखिलैः प्रवादै र्जिन ! त्वदीयं मतमद्वितीयम् ॥६॥ साकल्येन देशतो वा प्राणिहिंसातो विरतिर्दयाव्रतमनृतादिविरतेस्तत्रान्तर्भावात् । मनोज्ञामनोजेन्द्रियविषयेषु रागद्वेषविरतिर्दमः संयमः । वाह्याभ्यन्तरपरिग्रहत्यजनं त्यागः । पात्रदानं वा प्रशस्तं ध्यानं शुक्ल्यं धयं वा समाधिः। दया च दमश्च त्यागश्च समाधिश्चेति द्वन्द्वे निमित्तनैमित्तिकभावनिबंधनः पूर्वोत्तरवचनक्रमः, दया हि निमित्तं दमस्य तस्यां सत्यां तदुपपत्तेः, दमश्च त्यागस्य, तस्मिन्सति तद्घटनात, त्यागश्च समाधेस्तस्मिन्सत्येव विक्षेपादिनित्तिसिद्धेरेकायस्थ समाधिविशेषस्योपपत्तेः, अन्यथा तदनुपपत्तेः तेषु दयादमत्यागसमाधिषु निष्ठा तत्परता यस्मिन्मते तत्त्वदीयं मतं शासनमद्वितीयमेकमेव सर्वाधिनायकमित्यर्थः। कुतो मदीयं मतमे बंविधं सिद्धमिति चेत् "नयप्रमाणप्रकृतांजसार्थम्" यस्मात् , नयौ च प्रमाणे च नयप्रमाणानीति द्वन्द्वे प्रमाणशब्दादभ्यहितार्थादपि नयशब्दस्याल्पाच्तरस्य छन्दोवशात्पूर्वनिपातो न विरुद्धयते । प्रकर्षेण सर्वदेशकालपुरुषपरिषदपेक्षालक्षणेन कृतो निश्चित इत्यर्थः । अंजसा परमार्थेन प्रणीत आजसोऽसंभवदाधक इति भावः । अर्थो जीवादिव्यपर्यायात्मा। नयम Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy