SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं। शेषणत्वात् । तद्धि मूच्छितादिज्ञानं नार्थज्ञानं पुनस्तदर्थे स्मरणप्रसंगात् । न च भूच्छितादिदशायां परैनिमिष्टं येन व्यभिचार: स्यात् । येषां तु तस्यामपि दशायां वेदनया निद्रयाचाऽभिभूतं विद्यमानमेव मत्तदशायां मदिरेत्यादिवत् मदाभिभूतिवेदनवदन्यथा तदा नैरात्म्यापत्तेरिति मतं, तेषां विज्ञानस्य स्वव्यवसायोऽपि तदभिभूतप्रसिद्ध एवेति कथं तेनानैकान्तिकता ज्ञानत्वस्य हेतोः स्यात्ततोऽर्थज्ञानत्वं स्वव्यवसायात्मकत्वं साधयत्येव साध्याविनाभावनियमनिश्चयात् । नन्वीश्वरज्ञानमुदाहरणसाध्यशून्यं तस्य स्वव्यवसायात्मकत्वाभावादिति चेन्नेश्वरस्य सर्वज्ञत्वविरोधात् । ज्ञानान्तरेणात्मज्ञानस्य परिज्ञानात् सर्वज्ञत्वे तदपि ज्ञानान्तरं स्वव्यवसायात्मकं चेत्तदेवोदाहरणं । ज्ञानान्तरेण व्यवसितं चेदनवस्थानं तत्राऽप्येवं पर्यनुयोगात् । न चेश्वरस्य नानाज्ञानपरिकल्पना युक्ता सहस्त्रकिरणवत् साक्षात्सकलपदार्थप्रकाशकमेकमेवेश्वरस्य मेचकज्ञानमिति सिद्धान्तविरोधात् , तदीश्वरस्य ज्ञानमुदाहरणमेव साध्यवैकल्यानुपपत्तेः साधनकल्याभावाच्च । अर्थज्ञानत्वं हि सारनं तदुदाहरणे विद्यत एव विपक्षे बाधकप्रमाणसद्भावाद्वा साध्याविनाभावनियमस्य प्रसिद्धेः प्रकृतसाधनं साध्यं साधयत्येव । स्वव्यवसायरहितत्वे ज्ञानस्थानीश्वर इवेश्वरेपि प्रमाणविरुद्धत्वात् । स्वव्यवसायात्मकसकलार्थज्ञानात्वचिदभिन्नस्य परमात्मन एवाप्तपरीक्षायामीश्वरत्वसमर्थनात् । ततः स्थितमेतत्स्वार्थव्यवसायात्मकं तत्त्वज्ञानं प्रवृद्धं मानं प्रमाणमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy