________________
युक्त्यनुशासनं। ज्ञानान्वेषणं किमर्थं पुष्णीयात् । यदि पुनरुभयथा दर्शनाददोष इति मतं तदाऽपि किंचिल्लिगादिकमज्ञातं स्वलिंग्यादिषु व्यवसितिमुपजनयत्कथमपवार्यते । चक्षुगदिकमपि किंचिद्विज्ञातमेव स्वविषये परिच्छित्तिमुत्पादयदुभयथा दर्शनात् । स्यान्मतं चक्षुरादिकमेवाज्ञातं स्वविषयज्ञप्तिनिमित्तं दृष्टं, न तु लिंगादिकं तदपि ज्ञातमेव नान्यथा ततो नोभयत्रोभयथा प्रसंगः प्रतीतिविरोधादिति । तर्हि यथार्थज्ञानं व्यवसितमर्थज्ञप्तिनिमित्तं तथा ज्ञानज्ञानमपि ज्ञानेऽस्तु तत्राऽप्युभयथा परिकल्पनायां प्रतीतिविरोधस्याविशेषात् । कया पुनः प्रतीत्याऽत्र विरोध इति पेचतुरादिषु कयेति समः पर्यनुयोगः । विवादापन चक्षुरादिकमज्ञातमेवार्थज्ञप्तिनिमित्तं चक्षुरादित्वात्, यदेवं तदेवं यथाऽस्मच्चक्षुगदि, तथा च विवादापन्नं चक्षुरादि, तस्मात्तथा। विवादाध्यासितं लिंगादिकं ज्ञातमेव कचिद्विज्ञप्तिनिमित्तंलिंगादित्वाद, यदित्थं तदित्थं यथोभयवादिप्रसिद्धं धूमादि, तथा च विवादाध्यासितं लिंगादि, तस्मात्तथेत्यनुमानप्रतीत्या तत्रोभयथाकल्पने विरोध इति चेत्, तर्हि विवादापन्नं ज्ञानज्ञानं ज्ञातमेव स्वविषये इप्तिनिमित्तं ज्ञानत्वात्, यदेवं तदेवं यथार्थज्ञानं, तथा च विवादाध्यासितं ज्ञानज्ञानं, तस्मात्तथेत्यनुमानप्रतीत्यैव तत्रोभयथा कल्पनायां विरोधोऽस्तु सर्वथा विशेषाभावात् तथा चानवस्थानं दुर्निवारमेव नैयायिकंमन्यानां। स्यादाकूतमर्थज्ञानमप्यर्थे ज्ञानांतरेणाज्ञातमेव ज्ञप्तिमुत्पादयति यथा विशेषणज्ञानं विशेष्येर्थे, न पुनर्ज्ञानं तद्विज्ञानोत्पत्तेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org