SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७६ युक्त्यनुशासनं। तसि समूलतलमुपशाम्यति तदुपशमाच देहिनां जन्मप्रबंधस्योपशमो निश्चीयते तेन तत्कारणाभावात्तेनोपपत्तिवलादेवोपशमविधे.रात्म्यभावनैव मार्गः समवतिष्ठते । तदसदेव, प्रा. मदर्शनस्यैव जन्मप्रबंधोपशमविधिमार्गस्वोपपचेस्तथा हि-जन्मप्रबंधस्य हेतुरहंकारो मोहोदयनिमिनोऽहंतामात्रनिमित्तो वा ? प्रथमपक्षे नात्मदृष्टिहेतुकः स्यादविद्यातृष्णाक्षयेऽपि चितमात्रनिबंधनत्वप्रसंगात । सत्येवाविद्यातृष्णोदये चित्तमहंकारस्य हेतुरिति चेत्, तर्हि सत्येव मोहोदगेऽहंकारहेतुरात्मदृष्टिरिति किमनुपान्नं । द्वितीय क्षे तु युक्तिविरोधः, संसारस्याहं. तामानिमित्त वे मुक्तस्यापि संमारप्रमंगात् , ततो नाहंतामात्र जन्मप्रबंधहेतुरविद्य तृष्णाशून्यत्वात्सुगतचित्ताहंतामात्रवदित्युपपत्त्याऽहतामात्रहेतुलं संमारस्य बाध्यत एव । न च सुगतचितस्याहंतामात्रमपि नास्तीति युक्तं वक्तुं, स्वसंवेदनस्याहं सु. गत इति प्रतिभासमानस्थाभावप्रसंगात् । न बहमिति विकसोऽहंतामत्रं सकलविकल्पशून्यस्य योगिनस्तदसंभवाद, नाऽप्यहमस्य स्वामीति ममेदभावोऽहंतामात्रं तस्य मोहोदयनितस्य क्षीणमोहे योगिनि संभवाभावात् । ततो न साध्यशून्यो दृष्टान्तः साधनशुन्यो वा सुगतचित्ते स्वयमविद्यातृष्णाशून्यत्वस्य सौगनैरभीष्टत्व त् । नन्वात्मदृष्टेरविद्यातृष्णाशून्यत्वासंभवादात्मदृष्टेरेव विद्यात्वादविद्याया एव च तृष्णाहेतुत्वादविद्यातृष्णाशून्यत्वमसिद्धमेवेति चेत् , नात्मदृष्टेरविद्यावासिद्धेश्चित्तनणदृष्टिवत् यथैव हि प्रतिक्षणं चित्तदर्शनं विद्या तदन्तरेण Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy