SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६८ युक्त्यनुशासनं। गंधस्य दादित्वेन गृह्यमाणत्वान्न तेन व्यभिचार इति चेत् न, शब्दस्यापि तदधिष्ठानभेर्यादिदूरादित्वेन दूरे शब्दो दुग्तरे दुरतमे वेति ग्रहणादुपचारात्, दूरादित्वेन गृह्यमाणत्वस्य हेतोः परमार्थतोऽसिद्धत्वापत्तः । ततः प्राप्त एव शब्दो विवादापन्नः परिगृह्यते शब्दत्वात्कर्णशष्फुल्यन्तःप्रविष्टमशकशब्दवदिति प्राप्यकारि श्रोत्रं सिद्धं । तथा चैकस्य शब्दस्य युगनानादेशस्थजनश्रोत्रः प्राप्त्यसंभवान्नानाशब्दपरिणामाः सर्वदिका: प्रजायन्ते स्वप्रतिबन्धककुड्याधसंभवे स्वावरोधकनलिकाद्यसंभवे च स्वप्रतिघातकघनतरकुडयादिविरहे च सति गंधपरिणामवत् , समानाश्च सर्वे गवादिशब्दविवाः समानतालादिकारणप्रभवत्वात्समानकस्तूरिकादिद्रव्यप्रभवगन्धविवर्शवत्, शब्दोपादानपुद्गलानां सर्वशब्दपरिणामसमर्थानां सर्वत्र सद्भावेऽपि प्रतिनियतहेतुबशात्पतिविशिष्टशब्दपरिणामाश्च निश्चीयन्ते, गन्धोपादानपुद्गलानां सर्वेषां सर्वत्र सर्वगन्धपरिणामसमर्थानां संभवेऽपि प्रतिनियतहेतुगन्धवशात्पतिविशिष्टगन्धपरिणामवत् । ननु च वायव एव शब्दोपादानं तेषां सर्वत्र सर्वदा सद्भावादन्यथा व्यंजनादिना तदभिव्यक्तेरयोगाद्वेगवद्वाय्वन्तरेणाभिघाताचेति केचित् । तेऽपि वायवीयं शब्दमाचक्षाणाः श्रो. ग्र ह्यं कथमाचक्षीरन् तस्य स्पर्शनग्राह्यत्वप्रसंगात्स्पर्शवत् । तथा हि-वायवीयस्पर्शनेन्द्रियग्राह्यः शब्दो वाय्वसाधारणगुमात्वात्, यो यदसाधारणगुणः स तदिन्द्रियग्राह्यः सिद्धो यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy