________________
युक्त्यनुशासनं। प्रत्यक्षत्वे सत्ययावद्रव्यमाविस्वान्सुखादिवदिति, तदप्ययुक्तं विरुद्धत्वात्साधनस्य । तथाहि-स्पर्शवद्रव्यगुणः शब्दोऽस्मदा. दिप्रत्यत्तत्वे सत्ययावद्रव्यभावित्वाद् रूपादिविशेषवत्, नात्र साधनविकलमुदाहरणं रूपादिविशेषाणां यावत्पुद्गलद्रव्यमभावात् पूर्वरूपादिविनाशादुत्तररूपादिविशेषप्रादुर्भावात् । नापि साध्यविकलं रूपादिविशेषाणां स्पर्शवद द्रव्यगुणत्वावस्थितेः । सुखादिभिर्व्यभिचारः साधनस्येति चेत् , नास्मदादिप्रत्यक्षत्वे सतीति विशेषणात् । न च सुखादयः शब्दवदऽस्मदादीनां बहूनां प्रत्यक्षाः, स्वसंवेदनप्रत्यक्षेण तु कस्यचित मुखादयः स्वस्यैव प्रत्यक्षा न पुन नास्मदादीनामिति न तैय॑भिचारः । स्वस्याप्यस्मदादिग्रहणेन गृहीतत्वात् स्वप्रत्यक्षत्वमप्यस्मदादिप्रत्यक्ष सुखादीनांप्रत्यक्षसामान्यापेक्षयास्मदादिप्रत्यक्षत्ववचनादिति चेत् , तथाऽपि न सुखादिभिर्व्यभिचारा, स्याद्वादिभिः सांसारिकसुखादीनां कथंचित्स्पर्शवद्द्रव्यगुणत्वस्य प्रतिज्ञानात् । यथैव ह्यात्मपर्यायाः सुखादयश्चिदूपसमन्वयास्तथा सद्वेद्यादिपौगलिककर्मद्रव्यपर्यायाश्च, स्वपरतंश्रीकरणरूपसमन्वयादौदयिकभावानां कर्मद्रव्यस्वभावत्वसिद्धेः। मुक्तसुखज्ञान दर्शनादिभिस्तु गुणैरम्पर्शकद्रव्यात्मगुणैर्न व्य. भिचारस्तेषामस्मदाद्यप्रत्यक्षत्वादस्मदादिविशिष्टयोगिप्रत्यक्षविषयत्वा तेषामयावद्रव्यभावित्वाभावाच्चानंतत्वेन यावदात्मद्रव्यं भवनशीलत्वात् । ततो निरवद्यमेव विरुद्धसाधनत्वमेतत्य हेतोरिति स्पर्शवद द्रव्यपर्याय एव शब्दः प्रतीतिबलासिद्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org