SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ टोकासहितं। व्यगुणकर्मलक्षणा, तत्र द्रव्यगुणयोर्गुणभावेन क्रियायाःप्राधान्येन विधिव्यवच्छेदविधायित्वप्रतीतेर्वाक्यस्य न जातेरेव विधिन्यवच्छेदविधायिवाक्यं व्यवतिष्ठते। एतेन करोत्यर्थस्य क्रि यासामान्यस्यार्थभावनारूपस्य विधायक वाक्यं शब्दभावनारू. पस्य वा शब्दव्यापारलक्षणस्येति प्रतिक्षितं, यज्यादिक्रियाविशेषस्यापि वाक्येनाभिधानानियोगविशेषवदन्यथा तद्विशेषे प्रवृत्त्यभावप्रसंगात्, लक्षितलक्षणया तत्र प्रवृत्तौ शब्दप्रत्तिविरोधात्, शब्दप्रतिपन्नसामान्यलिंगादेव विशेषे प्रवर्तनात, शब्दमूलत्वात्तत्प्रवृत्तेः शाब्दत्वे परंपरया श्रोत्रंद्रियपूर्वकत्वात तत्प्रवृत्तेः अक्षजज्ञाननिमित्तत्वप्रसंगात् । एतेनैव सन्मात्रसामान्यस्य विधायकं वाक्यमित्यपि व्युदस्तं सद्विशेषस्यापि वाक्येनाभिधीयमानस्य प्रतीतेर्धात्वर्थविशेषवत् । भेदस्यैव विधिव्यवच्छेदविधायि वाक्यमिति मतमपि न श्रेयः, सामान्यविषक्तभेदविधिव्यवच्छेदविधायित्वाद्वाक्यस्य सदृशपरिणामलक्षणसामान्यविशिष्टस्यैव हि भेदस्य द्रव्यगुणक्रियाख्यस्य विधिव्यवच्छेदविधायितायां वाक्यस्य संकेतव्यवहारकालान्वय: स्यामान्यथाऽतिप्रसंगात् । सामान्यविषक्तभेदस्यैव विधिव्यवच्छेदविधायि वाक्यमिति दर्शनमपि स्वरुचिविरचितमेव । विशेषसामान्यविषक्तभेदविधिव्यवच्छेदविधायित्वाद्वाक्यस्य सादृश्यसामान्यविशिष्टस्येव विसदृशपरिणामलक्षणविशेषविशियस्यापि भेदस्य विधिव्यवच्छेदविधानप्रतीतेरवाध्यमानायाः प्रेक्षावद्भिराश्रयणीयत्वात । तत्र मेदस्य द्रव्यादिव्यक्तिरूपस्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy