SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ टीकासहितं। १५३ वत् । ननु च यथा प्रमाणं प्रमेयव्यवस्थांगमपि न प्रमेयधर्मस्तथा वस्तुव्यवस्थांगमप्यभावो न वस्तुधर्मः स्यात्, यो यद्व्यवस्थांग स तद्धर्म इति नियमाभावात्, व्यभिचारदर्शनात, न ह्याभावव्यवस्थांग घादिर्भाव इति तस्याभावधर्मत्वं प्रतीयेतेति कश्चित् । सोऽप्यनालोचितवचनः, प्रमाणस्यापि प्रमेयधर्मत्वाविरोधात् । प्रमाणं हि ज्ञानमविसंवादकमिष्यते तच प्रमेयस्यात्मनो धर्मः करणसाधनतापेक्षायां प्रतीयते, एवं प्र.. मितिः प्रमाणमिति भावसाधनापेक्षायां तु प्रमाणस्यात्मार्थस्य धर्मत्वमपीति सिदं प्रमेयधर्मत्वमात्मनः प्रमितिरर्थस्य प्रमितिरिति संप्रत्ययात् । तथा घटादेर्भावस्याभावधर्मत्वमपि न विरुद्धयते, मृदो घट इति यथा मृद्धों घट इति तथा सुवर्णाधभावस्य मृदो धर्म इत्यपि प्रयुज्यत एव सुवर्णाद्यभावस्यासुव मृदादिस्वरूपत्वात्ततो न व्यभिचारः। किं च हेतोर्विपक्षे कास्न्येनाभावो हेतुधर्म इति स्वमिच्छन्कथं हेतुलक्षणवस्तुव्यवस्थांगस्याभावस्य हेतुरूपवस्तुधर्मत्वं नेच्छेत् । यत्तु न वस्तु व्यवस्थांगमभावतत्त्वं तदमेयमेव भावैकान्ततत्त्ववत् । तदेवं परपरिकल्पितं सामान्य वस्तुरूपमरूपं वा यथा न वाक्यार्थस्तथा व्यक्तिमात्रं परस्परनिरपेक्षमुभयं वा न वाक्यार्थः समवतिष्ठते तस्यामेयत्वात्सकलप्रमाणगोचरातिकातत्वात् । कि तर्हि वाक्यमभिदधातीति मूरिभिरवस्थाप्यते ।विशेषसामान्यविषक्तभेद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy