________________
टोकासहितं ।
१२५
दयव्ययात्मन्येवार्थरूपे ब्यवतिष्ठत इति कथं विपर्ययं साधयेद्यते विरुद्धमभिधीयेत । सपने सच्चाभावादसाधारणानैकान्तिको हेतुरिति चेत्, कोऽयमसाधारणो नाम ? सपक्षवि - पक्षयोरसन्नसाधारण इति चेत स किं तत्र निश्चितासद्भाव: संदिग्धासद्भावो वा ? प्रथमपक्षे नानैकांतिकः स्यात्, सर्वथा विपक्षे निश्चितासत्त्वस्य सम्यग्धेतुत्वात्, सम्यहेतेार्विपक्षासत्त्वनियमनिश्चयलक्षणत्वात् तदभावे सपक्षे सतोऽपि गमकत्वायोगात् । सपक्षसवनियमस्य हेतुलक्षणत्वाव्यवस्थितेस्तदभावेऽपि हेतोर्गमकत्वसिद्धेः । यदि पुनर्द्वितीयः पक्षः सपक्षविपक्षयोः संदिग्ध सद्भावोऽनैकांतिक इति चेत् तदा न सच्चादिति हेतुरसाधारणानैकांतिकः प्रमाणबल। द्विपक्षे तस्यासद्भावनिश्रयात् संशयासंभवादनैकांतिकत्वविरोधात् । संशयहेतुर नैकांतिक इति सामान्यतोऽनैकान्तिकलक्षणप्रसिद्धेः ततोsसिद्धविरुद्धानैकांतिकत्वविमुक्तत्वात्सूक्तमिदं युक्त्यनुशा सोदाहरण प्रतिक्षणं स्थित्युदयव्ययात्मकपर्थरूपं सत्त्वादिति । ननु च येन रूपेण स्थितिर्वस्तुनस्तेन स्थितिरेव येनोदयस्तेनोदय एव येन व्ययस्तेन व्यय एवेति व्यवस्थायां नानेकान्तात्मक वस्तुसिद्धिः स्थित्याद्येकान्तस्यैव प्रसिद्धेः, इति न मन्तव्यं, तत्वव्यवस्थमिति वचनात्, तंत्र स्थित्युदयव्ययात्मार्यरूपं प्रतिक्षणव्यवस्थं न विद्यते व्यवस्थाऽस्येति व्याख्यानात् । येन हि रूपेण वस्तु तिष्ठति तेनोत्पद्यते नश्यति च स्थितं क्यास्यति च उत्पन्नउत्पत्स्यते च नष्टं नंदपति च । येन
Jain Education International
.
For Private & Personal Use Only
{
www.jainelibrary.org