SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । त्रयो त्रिरेकशस्त्रिद्विश एक एव । यो विकल्पास्तव सप्तधामी स्याच्छब्दनेयाः सकलेऽर्थभेदे ॥ ४६ ॥ टीका - स्यादस्त्येवेति विधिः स्यान्नास्त्येवेति निषेधः स्यादनभिलाप्यमेव सर्वमर्थजातमित्यनभिलाप्यता, तेऽमी त्रयो विकल्पाः एकशस्त्रिरिति वचनात् पदस्येत्यर्थवशाद्विभक्तिपरिणामः । एषां विपाद्येन विपक्षेण संधिः संयोजना स्यादस्ति नास्त्येव स्यादस्त्यवक्तव्यमेव स्यान्नास्त्यवक्तव्यमेवेति त्रिद्विशो भवति । द्वाभ्यां द्विश इति द्विसंयोगजा विकल्पास्त्रिरिति त्रिप्रकारा भवन्ति । स्यादस्तिनास्त्यवक्तव्यमेवेत्येक एव विकल्पो भवति । तदेवं विपाद्यसंधिप्रकारेण त्रयोऽमी मूलविकल्पाः सप्तधा भवति । किं कचिदेवार्थे किं वा सर्वत्रेति शंकायामिदमुच्यते--सकलेऽर्थभेदे निरवशेषे जीवादितत्त्वार्थपर्याये, न युनः कचिदेवार्थपर्यायभेदे, प्रतिपर्यायं सप्तभंगीतिवचनात् । विकल्पाः सप्तधा भवंति तवेति वचनात् न च परेषामप्यमी । नन्वस्तित्वं प्रति विप्रतिपन्नमनसां तत्प्रत्यायनाय यथा स्यादइत्येवेति पदं प्रयोगमहति तथा स्यान्नास्त्येवेत्यादिपदान्यपि प्रयोगमर्हेयुः सप्तधावचनमार्गस्य व्यवस्थितेरिति पराकूतं निराचिकीर्षवः स्याच्छब्दनेया इति प्रतिपादयति । यथा विधिविकल्पस्य प्रयोगस्तद्विवाद विनिवृत्तये स्याद्वादिभिर्विधीयते तदा निषेधादिविकल्पाः शेषाः षडपि स्याच्छब्देन नेयाः स्युः । न १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy