________________
१०३
टीकासहितं । दित्यर्थः । अनाद्यविद्यावशाद्विशेष सद्भावाददोष इति चेत्, न, विद्याविद्याविशेषयोरप्ययोगात्, अन्यथा द्वैतमसंगात् । अथवा नास्तित्वमस्तित्वादभेदीति विरोधि च स्यान्न केवलमात्मही नमिति चशब्दार्थः । कस्मात् ? अविशेषभावाद्विशेषस्य भेदस्यास्तित्वनास्तित्वयोरभावात् । यो हि ब्रूयादिदमस्मादभेदीति तेन तयोः कथंचिद्भेदोऽभ्युपगतः स्यादन्यथा तद्वचनायोगात् कथंचिदपि भेदिनोरभावे तत्प्रतिषेधविरोधात् । अथ शब्दाद्विकल्पभेदाद्भेदिनोः स्वरूपभेदः प्रतिषिध्यते तदापि शब्दयोर्विकल्पयोश्च भेदं स्वयमनिच्छन्नेव संज्ञिनो भेदं कथमपाकुर्वीत ? पराभ्युपगमादेव शब्दविकल्प भेदस्येष्टर्न दोष इति चेत्, न, स्वपरभेदानभ्युप गमे पराभ्युपगमासिद्धेः । विचारात् पूर्व स्वपरभेदः प्रसिद्ध एवेति चेत्, न, तदाऽपि पूर्वापरकालभेदस्यासिद्धेः । तत्सर्वथा भेदापहवे स्यादेवाभेदीति वचो विरोधि विशेषाभावादिति स्थितं ।
नन्वेस्तित्वविरोधान्नास्तित्वं वस्तुनि कथमभिधीयते स्याद्वादिभिरेव कारोपहितेनास्तीतिपदेन तस्य व्यवच्छेदादनेवकारेण तस्य वक्तुमशक्यत्वादनुक्तसमत्वात् । ततश्चावाच्यतैवापतेत् प्रकारांतराभावादित्याशं कायामिदमुच्यते-
तद्द्योतनः स्याद्गुणतो निपातः । विपाद्यसन्धिश्च तथांगभावा
दवाच्यता श्रायसलो पहेतुः ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
43
www.jainelibrary.org