SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ वैराग्यमणिमाला | एको रोगी शोकी एको दुःखविहीनो दुःखी एकः । व्यवहारी च दरिद्री एक एकाकी भ्रमतीह वराकः ॥ १० ॥ अथिरं परिजनपुत्रकलत्रं सर्वे मिलितं दुःखामत्रं । चेतसि चिंतय नियतं भ्रातः ! का ते जननी कस्तव तातः ॥ ११॥ भ्रातर्भूतगृहीतोऽसि त्वं दारनिमित्तं हिंससि सत्त्वं । तेनाऽधेन च यास्यसि नरकं तत्र सहिष्यसि घोरांतकं ॥ १२ ॥ विषय पिशाचासंगं मुंच क्रोध कषायौ मूलालुंचे । कंदर्पप्रभोर्मानं कुंचं त्वं लुंपेन्द्रिय चौरान पंच ॥ १३ ॥ कुत्सितकुथितशरीरकुटीरं स्तननाभी मांसादिविकारं । रेतः शोणितपूयापूर्ण जघनच्छिद्रं त्यज रे ! तूर्णं ॥ १४ ॥ संसाराब्धौ कालमनंतं त्वं वसितोऽसि वराक ! नितांतं । अद्यापि त्वं विषयाऽऽसक्तः भव तेषु त्वं मूढ ! विरक्तः ॥ १५ ॥ दुर्गतिदुःखसमूहैर्भग्नस्तेषां पृष्ठे पुनरपि लग्नः । विकलो मत्तो भूताविष्टः पापाचरणे जंतो ! दुष्टः ॥ १६ ॥ सतधांतुमय पुद्गलपिंडः कृमिकुलकलितामयफणिखंड । ......... तदपि हि मूर्ध्नि पतति यमदंडः ॥ १७ ॥ मा कुरु यौवनधनगृहगर्व तब कालेस्तु हरिष्यति सर्वं । इंद्रजालमिदमफैलं हित्वा मोक्षपदं च गवेषये मत्त्वा ॥ १८ ॥ नीलोत्पलदलगत जलचपलं इंद्रचापविद्युत्समतरलं । किं न वेत्सि मंसारमसारं भ्रांत्या जानासि त्वं सारं ॥ १९ ॥ शोकवियोगभयैः संभरितं संसारारण्यं त्यज दुरितं । कस्त्वां हस्ते दृढमिव धृत्वा बोधिष्यति कारुण्यं कृत्वा ॥ २० ॥ १ अनित्यं २ अतिदुःखं ३ विनाशय । ४ कामस्य ५ खंडय ६ मारय ७ अद्यावधि अपि ८ विरागी ९ रक्ताः स्थिमज्जादयः सप्तधातवः १० यमः ११ फलरहितं १२ त्यक्त्वा १३ अन्वेषय १४ चंचलं । Jain Education International १३९ For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy