________________
अष्टमः सर्गः:
७५
अष्टमः सर्गः।
अथाऽसौ सदनं प्राप्य प्रस्तुताखिलमङ्गलम् । ननाम मातरं साऽपि रुरोदाऽऽघ्राय मस्तकम् ॥ १॥ समाश्वास्य ततस्तां स यथाज्येष्ठं कृताऽऽनतिः । भद्रासने निविष्टश्च भवन्भाजनमाशिषाम् ॥२॥ अक्षतानि ददौ तत्र मस्तकेऽस्य जनीजनः । गीतवादिनृत्यादिकृतानि च सहस्रशः ॥३॥ श्व प्रणम्य नारीणामन्यासामपि पादयोः । पपात क्रम इत्यस्य कान्तानां च चतुष्टयम् ॥ ४ ॥ निविष्टं च समासन्नवनिताजनमध्यतः। स्वरूपसम्पदा सर्वभाविताऽऽहितविस्मयम् ॥ ५॥ सम्भाविताश्च सर्वेऽपि बान्धवाः स्निग्धबुद्धयः। सस्त्रीकास्तन्मुखाम्भोजलीननेत्राऽलिमालिकाः ॥ ६॥ गत्वा ततो जिनेन्द्राणां सर्वेष्वायतनेष्वसौ। भक्त्या पूजादिकं कृत्वा चकारोत्सवमादृतः ॥७॥ प्रणनाम गुरूणाश्च पादपद्मानि भक्तितः।। कृतकृत्यमिवात्मानं मेने संभाषितश्च तैः ॥ ८॥ आगत्य च ततोऽदायि दीनाऽनाथार्थिनां धनम् । यथाकामं कुमारेण मारेणेव समूर्त्तिना ॥९॥ तथाऽस्य चरितं श्रुत्वा पूजितोऽसौ विशेषतः। चन्द्रशेखरराजेन जनैरन्यैश्च सादरम् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org