SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४४ जिनदत्तचरित्रे अभ्युत्तस्थे कुमारेण दृष्टिगोचरमागतः । भूपस्तेनापि हृष्टेन सप्रसादं विलोकितः॥६५॥ उपविष्टस्ततो राजा तां ददर्श स्वदेहजाम् । स्वर्भानुनेव निर्मुक्तां पार्वणेन्दुतनुं यथा ॥६६॥ मुहुर्मुखं तनूजाया मुहुस्तस्य महामतेः। तृप्ति जगाम नो पश्यंस्तदानीं नरनायकः ॥ ६७ ॥ पप्रच्छ च महाबुद्धे किमयाऽजनि चेष्टितम् । रात्रावत्र कुमारेण दर्शितं पन्नगादिकम् ॥ ६८॥ कथितञ्च ततः सर्व कुमार्या जनकाय तत् । अहो चित्रमसम्भाव्यं विधर्विलसितं भुवि ॥६९॥ उपकारः कृतोऽनेन सोऽयं मम महात्मना । कुलकीर्तिः प्रतापो मे राज्यं येनाऽऽशु दीपितम् ॥ ७० ॥ ददाम्यस्मै सुतामेनां भल्लीमिव मनोभुवः । अतोऽपि गुणसम्भारभूषितः को भविष्यति ॥ ७१ ॥ कुमारस्य मुखेऽन्यस्य संहृता तरला स्थिरा। अलक्षप्रसरा दृष्टिर्यथाऽस्याश्च विकासिनी ॥ ७२ ॥ यथा गण्डस्थलोद्भूता मन्दाः स्वेदोदविन्दवः । म्लानरागाः समुच्छासैर्यथा वाऽधरपल्लवः ॥ ७३ ॥ . वाग्वृत्तिः स्खलिता कम्परोमांचोऽसावधानता। सखीष्वस्यास्तथा व्यक्तं कुमारेऽजनि मानसम् ॥ ७४॥ यथा चिन्तितमेवेदं सम्पन्नं मम साम्प्रतम् । समाकृष्टोऽथवा पुण्यैरयमस्याः समागतः ॥ ७५॥ १ स्वपुत्रीम् । २ राहुणा । ३ प्रकाशितं । । कामस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy