________________
एकादशोऽधिकारः ।
दृमोहस्योदयादिभ्यो यन्न सासादनो गुणः । जात औदयिकोऽपि स्यात्तदयं पारिणामिकः ॥ ११५॥ संज्ञित्वं समनस्कत्वं शिक्षाऽऽदानादियोग्यता। भवेदसंज्ञिता संज्ञिलक्षणालक्षितत्त्वतः ॥ ११६ ॥ नोकर्माऽऽदानमाहारः सादिदेहत्रयोदयात् । नोकर्माऽऽहरणाभावस्त्वनाहारः प्ररूपितः ॥ ११७॥ साकार उपयोगः स्यादुपयोगोऽष्टबोधजः । अनाकारश्चतुर्दर्शनोत्थस्तो जीवलक्षणम् ॥ ११८ ॥ नृतिर्यक्संज्ञिपर्याप्तकर्मभूगर्भजे जनिः। सुराणां नारकाणां च सप्तम्याः स्यात्तिरश्चि तु ॥ ११९ ॥ तीर्थशाश्चरमांगाश्च संयता देशसंयताः । तुर्यादिसप्तम्यंताभ्यश्च्युता नो नारकाः क्रमात् ॥ १२० ॥ नारकोऽनन्तरं न स्यान्चक्रेशः केशवो बलः । शलाकपुरुषा नैव ऋतिर्यग्भावनत्रयम् ॥ १२१ ॥ च्युतो न केशवोऽनुदिशानुत्तरविमानतः। संज्ञिपूर्णेषु जायन्ते आसहस्रारतश्च्युताः॥१२२ ॥ भवन्त्यनन्तरं देवा ये आईशानतश्युताः। अप्रतिष्ठितप्रत्येकस्थूलभूतोयपूर्णगाः ॥ १२३ ॥ तिर्यक्षु मर्त्यतिर्यंचस्ते तेजोवायुवर्जिताः। नृषु पंचेंद्रियाः पूर्णा नारकेष्वमरेष्वपि ॥१२४ ॥ अष्टवाराद्विवारान्तं धर्मोादिष्वसंज्ञिनः। सरीसृपाः खगाः सर्पाः सिंहाः कान्ता नरापचराः ॥१२५॥ भौमभावनयोः पूर्णो असंज्ञी भोगभूमिजाः। तापसप्रवराश्चापि जायन्ते भुवनत्रये ॥ १२६॥ स दृष्टिभोगभूजाताः सौधर्मेशानकल्पयोः। पर्याप्ताः कर्मभूसंज्ञिमानवा भोगभूमिषु ॥ १२७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org