________________
- एकादशोऽधिकारः ।
८७
जलस्थलखगास्ते ये मीननागशुकादयः। ज्ञेयाः पंचेंद्रियाः सर्व नारकाश्च नराः सुराः॥ ८९॥ पृथिव्यतजोवायुवनस्पतित्रसकायिकाः। जीवाः षडिति पृथ्व्यादिनामकर्मविशेषजाः ॥ ९० ॥ मसूरिकापयोबिन्दुसूचीवृन्दध्वजोपमाः। कायाश्चतुषु पृथ्व्यादिष्वन्त्ययोर्विविधाः स्मृताः ॥९१॥ समचतुरस्र न्यग्रोधस्वाती द्वे च वामनम् । कुब्जं हुंडमिति प्रोक्तं संस्थानं षड्डिधं जिनैः ॥ ९२ ।। हुंडं पुनारकैकाक्षाद्यसंड्यंतेषु सामरे । भोगभूजे भवेदाद्यं सर्वाण्यन्येषु देहिषु ॥९३ ॥ रसरत्नशिलालोहवालुकागैरिकादयः। मृदश्च पृथ्वीतत्कायाः पृथिवीकायिकांगिनः ॥ ९४॥ नदीनदसमुद्रादिजलवर्षाम्बुसीकराः । स्युः प्रालयादयश्चापस्तदप्कायाः स्वकायिकाः ॥९५॥ स्युरंगाराः स्फुलिंगाश्च ज्वालाश्चाप्यन्यवन्हयः । तेजांसि तच्छरीरा ये ते तेजस्कायिकाः स्मृताः ॥ ९६॥ वातो वात्या महावाता व्यजनादिभवाश्च ये। ते वातास्तच्छरीराः स्युरंगिनो वातकायिकाः ॥९७॥ ते वनस्पतयो वृक्षापवल्लीतृणादयः। उद्वेजनक्रियाभाजस्त्रसाः स्युर्तीन्द्रियादयः ।। ९८॥ कर्मादाननिमित्तात्मप्रयत्नो योग इष्यते। देहनामैनसः पाकात्प्रदेशस्पंदलक्षणः ॥ १९ ॥ मनोयोगः स वाग्योगः काययोग इति त्रिधा । मनोवचनपर्याप्तिकायवत्सु क्रमेण नुः ॥ १०॥ स्त्री पुमान् षण्ड इत्येवं भावा वेदास्त्रयोंऽगिषु । ते स्त्रीपुंषण्ढवेदैनः प्रदेशोदयसंभवाः ॥ १०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org