________________
दशमोऽधिकारः ।
किं तृप्तिर्भवतीयती भवभवे पीतादजातेत्यतो नानानीरधिनीरतोऽतिमहतो मे कर्मघातिनः ॥ ५८ ॥ ज्ञाताऽऽस्वादसमस्तवस्तुभिरलं बाबैरसारैः परं जैनेन्द्रं वचनामृतं जननमृत्यातंकनाशीति तत् । धृत्वा पंचगुरून्मनस्यविचलं तन्मंत्रमुच्चारयन धर्म्य शुक्लमपि प्रकृष्टफलदं ध्यायंस्तनु व्युत्सजेत् ॥ ५९ ॥
(चतुष्कम् ) देवैस्तिर्यगचेतनैश्च मनुजैः प्राप्तोपसर्गस्तदा त्यक्त्वाऽऽहारशरीरसंगमखिलं बाधाऽविरामावधि । सावधं सकलं च निर्मलमना ध्याने प्रशस्ते स्थितस्तिष्ठेत्पंचगुरूनभिमतफलप्राप्त्यभ्युपायानपि ॥ ६०॥ इंगिन्यां चान्यसंपादितहितविरतौ वर्णितो योऽत्र भक्तप्रत्याख्याने क्रमोऽसौ निरतिशयमृतौ स्वोपकारप्रवृत्तौ। ज्ञेयः प्रायोपगत्यां स्वपरहितकृत्त्यक्तवांच्छाप्रवृत्ती ताभिः सप्ताष्टजन्मस्वपगतदुरिता मेाक्षलक्ष्मीं लभन्ते ॥६१ ॥ दीक्षामादाय शिक्षामथ गणधरतां रक्षणार्थ गणस्य संस्कारं स्वस्य भावः शमदमविभवेयोऽत्र सल्लेखनां च । .. क्रोधादीनां विधाय प्रथितपृथुयशाः साधयेदुत्तमार्थ सः स्यात्सद्भव्यसस्योत्पलनिकरमुदे मेघचन्द्रो मुनीन्द्रः॥६॥ श्रेयोनाथ ! सरस्वतीश्वरतया रत्नाकरत्वेन तु . गांभीर्येण वरेण निर्मलतया वार्द्धिः समोस्तु त्वया। किं वंद्या जलधेः सदा प्रमुदितत्रैलोक्यसंसेव्यता लक्ष्मीश्चाक्षयसंगमाऽस्ति परमा मूर्तिमनोहारिता ॥ ६३॥ इति श्रीमद्वीरनन्दिसिद्धान्तिचक्रवर्तिप्रणीते श्री 'आचारसार' नाम्नि ग्रन्थे ध्यानवर्णनात्मको दशमोऽधिकारः ॥१०॥
..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org