________________
दशमोऽधिकारः।
७७
वैराग्यं वरगुप्तिताऽतिमृदुता निर्मायिताऽसंगता धर्मस्येति समस्तवस्तुपरमोपेक्षा च लक्ष्मोदितम् ॥ ४५ ॥ धर्म्य स्यानिखिलार्थसार्थनिहितं चित्तं समं संस्थितं सम्यग्दृष्टययतादिसप्तमगुणांतेषु प्रवृद्धं क्रमात् । साक्षात्संवरनिर्जरादिकरणं नानात्मनां कर्मणां सऽल्लेश्यात्रयजं च नाकसुखदं प्राग्रं क्रमात्सिद्धिदम् ॥४६॥ शुक्लध्यानमतश्चतुर्विधमिदं प्रोक्तं वितौ पृथतवेकत्वानुगतावुभावपि सवीचारेतरौ स्तः क्रमात् । कार्यस्यातिशयेन जातपरमाह्वानं तु सूक्ष्मक्रिय ध्यानं प्रतिपाति तादृशसमुच्छिन्नक्रियं चेत्यपि ॥४७॥ आद्यं शुक्लमनेकधा स्वविषये वृत्त्या पृथक्त्वेन यत् सर्वद्रव्यगतश्रुतस्य परमस्यास्मिन् वितर्कस्य यः। संचारोऽर्थवचस्त्रियोगगहने वीचार एषो भवे
यानं सार्थकनामधाम तदिदं स्यादिष्टसंपत्पदम् ॥४८॥ एकत्वेन न पर्ययान्तरतया जातो वितर्कस्य ययो वीचार इहैकवस्तुनि वचस्येकत्र योगेऽपि च। नार्थव्यंजनयोगजालचलनं तत्सार्थनामेत्यदो ध्यानं घातिविघातजातपरमार्हन्त्यं द्वितीयं मतम् ।। ४९ ॥ शुक्लेऽभ्यन्तरबाह्यकारणगणो न्यक्षं च तल्लक्षणं धर्म्य वा प्रथम क्षयोपशमयोर्मोहस्य हेतुईयोः। श्रेण्योर्मोक्षविनाकदं विलयकृद्धातित्रयस्यापरं वर्य क्षीणकषाय एव यमलं तच्छुक्ललेश्योद्भवम् ॥ ५० ॥ ध्यानं चिन्तनमेकवस्तुनि कियत्कालं मतं तच्छुतज्ञानं स्वावरणक्षयोपशमजं ध्यानोपचारस्ततः। शश्वद्विश्वनिरन्तरावृतिहतिप्रत्यक्षबोधेऽर्हति कर्मस्थित्यनुभागघातगलनाद्यर्थस्य तत्रेक्षणात् ।। ५१ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org