SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दशमोऽधिकारः । लोको बोध्यतिदुर्लभत्वमपरो धर्मस्तदित्यन्वितं भेदैः स्वैर्विचयोऽस्य चिंतनमनुप्रेक्षा स्मृतं द्वादश ॥ ३२ ॥ उत्पत्तिः प्रलयश्च पर्ययवशाद्रव्यात्मना नित्यता वस्तूनां निचये प्रतिक्षणमिहाज्ञानाज्जनो मन्यते। नित्यत्वं द्रवदंबुदीपकलिकास्थैर्य यथार्थादिके नष्टे नष्टयुतिः करोति बत शोकार्ती वृथाऽऽत्मीयके ॥ ३३॥ मंत्रास्तंत्रततिस्तदन्वितकृतिर्दुर्गा द्विषदुर्गमा भृत्याः किं न भृताः सुहृत्ततिरपीत्येतेषु सत्स्वप्यगुः। सर्वे पूर्वमहीभृतः क्षतिमतः कस्यापि कालत्रये त्राताऽत्रास्ति न नाशमीयुषि पुरा पुण्यार्जिते वाऽऽयुषि॥३४॥ वृत्त्या जातिगतिष्ववाप्तकरणोऽनंतांगहारः सदा प्रोद्भूतिप्रलयो नरामरमृगाद्याहार्यपर्यायवान् । हित्वा सात्त्विकभावजातीमतरैर्भावैः स्वकर्मोद्भव र्जीवोऽयं नटवद्रमत्यभिनवः सर्वत्र लोकत्रये ॥ ३५ ॥ कोऽप्याप्तः स्वजनोऽनुगोऽस्ति न परो वा याति जन्मांतरं जीवे जन्मनि वाऽत्र मित्रनिकरैः किं नाशितं वा हृतम् । चित्रं गात्ररुजादि हृदयज वाऽसातमेकस्ततो मृत्युत्पत्तिनिवृत्तिषु प्रणयिनोऽन्येऽर्थेष्वनों निजः ॥ ३६॥ चैतन्यं जडतैकताऽवयविसंदोहोदिताऽनेकता नित्यत्वं क्षयिता च मूर्तिवियतिमूर्तत्वमित्यादिभिः । भेदं देहिशरीरयोरगणयन् कि नेक्षते वृद्धिमदेहं खेदिनि देहिनि स्थितमतिकांतेऽत्र दुर्मित्रवत् ॥ ३७॥ रेतः शोणितजातिधातुनिचितं प्रच्छादितं चर्मणा सान्द्रोद्रिक्तगलन्मलं बहुविलैरंग जुगुप्सानुगाम् । भीतिं किं न तनोत्यसंस्कृतिबहिश्चर्मात्रगात्रे न चेत् स्पष्टुं द्रष्टुमपि क्षमोऽस्ति किमिदं त्रातुं पतव्यादितः॥ ३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy