________________
आचारसारे
कायोऽयं रसरक्तमांसविसरो मेदोऽस्थिमज्जव्रजो बीभत्सो विततांत्यधातुरुदितः शुक्रार्त्तवाभ्यां क्षयी | जीवाश्लेषवशात्तकान्तिरखिलक्लेशैकनीडो जडः
संगोऽनेन सतां दुनोति हृदयं मोदोऽत्र लज्जास्पदम् ॥ ३ ॥ चेतस्त्वं किमिति व्रजस्यतितरां भ्रान्तिस्तवात्राऽस्ति किं मोहोत्पादकमिन्द्रजालललिते कान्तैककान्तेऽक्षजे । सौख्यं ते विरसेऽभिमानसर से कान्ताश्च तद्दर्पणप्रोल्लासिप्रतिबिंबडंबरभराः संमोहदाः केवलम् ॥ ४ ॥ मत्त्वैवं भवदेहभोगजनितक्लेशाग्निहृत्प्लोषण
स्तच्छान्त्यै प्रगुणस्तदक्षयपदानन्दामृतान्वेषणः । शुश्रूषाश्रवणादिपुण्यधिषणः सद्भव्यताभूषण
चार्वी चारु परीक्षितान्यसमयाप्ताचा रसदूषणः ॥ ५ ॥ युक्त्या युक्तं जिनोक्तं जिनवृजिनजिनं दत्तहस्तावलंब
जन्मोदन्वन्निमज्जद्गुरुदुरितभरार्त्ताङ्गिनां तद्दयाढ्यम् । धर्म स्वर्मोक्षशर्मप्रदमपि मुदितः प्राप्य दुःप्रापमीशं
प्रीत्यै प्रीत्यर्त्तिपापप्रभवभवकरागारचारातिभीरुः ॥ ६ ॥ सन्नार्थं परिपूर्णनिर्मलकलं सल्लक्ष्मलक्ष्मीकुलं
दोषासंगमनंगराजविजयं नित्यं सुवृत्तोदयम् । स्वान्तध्वान्तविनाशिनं कुवलयानन्दामृतस्यन्दिनं प्रीत्योपेत्य मुनीन्द्रचन्द्रमपरं तत्पादसेवापरः ॥ ७ ॥ नत्वा तमीशं विनतार्त्तिनाशं विज्ञापितात्मीयमनोगतार्थः । संगानपेक्षां मम देहि दीक्षां
दयामयीं भो ! यतिवल्लभेति ॥ ८ ॥ प्राज्ञेन ज्ञातलोकव्यवहृतिमतिना तेन मोहोज्झितेन प्राग्विज्ञातः सुंदेशों द्विजनृपतिवणिग्वर्णवण्यपूर्णः ।
१ वैचित्यदाः । २ अत्रानुप्रासः । ३ समुद्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org