SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६४ आचारसारे चपापावादिनिर्वाणक्षेत्रादीनि पवित्रताम् । वंद्यतां च व्रजत्येव वंद्य संगमतस्तथा ॥ २९ ॥ ( युग्मम् ) मत्वेति जिनगेहादिं त्रिःपरीत्य कृतांजलिः । प्रकुर्वस्तच्चतुर्दिक्षु सत्र्यावर्त्ता शिरोनतिम् ॥ ३० ॥ घोरसंसारगंभीरवारिराशौ निमज्जताम् । दत्तहस्तावलंबस्य जिनस्यार्चार्थमाविशेत् ॥ ३१ ॥ ( युग्मम् ) जिनेशतारकाधीशपादसंपादितोत्सवः । श्रीलीलामन्दिरस्वीयलोचनेन्दीवरः पुनः ॥ ३२ ॥ ईर्याssगः शुद्धयै व्युत्सर्ग कृत्वाऽऽसीनोऽनुकंपया । आलोच्य समतां वर्या कुर्यादात्मेच्छयाऽन्यदा ॥ ३३ ॥ (युग्मम् ) लक्षणं समतादीनां पुरोक्तं किन्तु वर्ण्यते । व्युत्सर्गाव सरोच्छ्राससंख्यानामादि साम्प्रतम् ॥ ३४ ॥ क्रियायामस्यां व्युत्सर्गे भक्तेरस्याः करोम्यहम् । विज्ञाप्येति समुत्थाय गुरुस्तवनपूर्वकम् ॥ ३५ ॥ कृत्वा करसरोजातमुकुलालंकृतं निजम् । भाललीलासरः कुर्यात् त्र्यावर्त्ता शिरसो नतिम् ॥ ३६ ॥ आद्यस्य दंडकस्यादौ मंगलादेरयं क्रमः । तदन्तेऽप्यगव्युत्सर्गः कार्योतस्तदनन्तरम् ॥ ३७ ॥ कुर्यात्तथैव ' थोस्सामी.' त्याद्यार्याद्यंतयोरपि । इत्यस्मिन द्वादशावर्त्ताः शिरोनतिचतुष्टयम् ॥ ३८ ॥ ( युग्मम् ) ग्रन्थारंभ समाप्तौ च स्वाध्याये स्तवनादिषु । सप्तविंशतिरुच्छ्रासा व्युत्सर्गे दुर्मनस्यपि ॥ ३९ ॥ व्रतेत्वन्यतमस्याऽतिचारशुद्धेर्दिनस्य च । स्यात्प्रतिक्रमणेऽष्टाग्रशतं रात्र्यास्तु तद्दलम् ॥ ४० ॥ पाक्षिके त्रिशतं चातुर्मासिके स्याच्चतुः शतम् । शतानि पंच संवत्सरस्य षट्सु क्रियान्तगे ॥ ४१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy