SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽधिकारः । आसन्नगर्भिणी वेश्या दास्यन्तरिताऽशुचिः । भक्षयन्ति किमप्येवमाद्या दोषास्तु दातृगाः ॥ ५१ ॥ ( युग्मम् ) मिश्रं षट्जीवसम्मिश्रमपक्कं पावकादिभिः । द्रव्यैरत्यक्तपूर्वस्ववर्णगन्धरसं विदुः ॥ ५२ ॥ लिप्तमप्रासु कैस्तोय मृत्तिकातालकादिभिः। लिप्तैर्दर्वी कराद्यैर्यदीयमानाशनादिकम् ॥ ५३ ॥ स्वादार्थमन्नपानानां यत्संयोजनकर्म तत् । प्रोक्तं संयोजनं नानारोगाऽसंयम कारणम् ॥ ५४ ॥ अन्नेनार्द्ध तृतीयांशं कुक्षः पानेन पूरयेत् । वायोः सुखप्रचारार्थं चतुर्थमवशेषयेत् ॥ ५५ ॥ प्रमाणादतिरेकोऽस्मात्प्रमाणागो भवेद्यतः । ध्यानाध्ययनभंगार्ति निद्राऽऽलस्यादयोंऽगिनः ॥ ५६ ॥ रागेणेष्टान्नपानाप्तौ सेवांगारो निगद्यते । धूमोऽनिष्टान्नपानाप्तौ यद् द्वेषेण निषेवनम् ॥ ५७ ॥ क्षुच्छान्त्यावश्यकप्राणरक्षाधर्मयमा मुनेः । वैयावृत्त्यं च षट् भुक्तेः कारणानीति यन्मतम् ॥ ५८ ॥ ततः शरीरसंवृद्धयै तत्तेजोबलवृद्धये । स्वादार्थमायुः संवृद्धयै नैव भुंजीत संयतः ॥ ५९ ॥ महोपसर्गाissiniगसंन्यासांगिदयातपोब्रह्मचर्याणि भिक्षोर्षट् कारणान्यशनोज्झने ॥ ६० ॥ एतद्दोषविहीनान्नभुक्तेरन्तरकारिणः । अन्तरायाः कियन्तोऽत्र वर्ण्यन्ते वर्णिनामिमे ॥ ६१ ॥ रसपूयाऽस्थिमांसासृक्चर्मामिध्यादिवीक्षणम् । काकाद्यमेध्यपातोंगे वमनं स्वस्य रोधनम् ॥ ६२ ॥ अश्रुपातच दुःखेन पिंडपातः स्वहस्ततः । काकादिपिंडहरणं पतनं त्यक्तसेवनम् ॥ ६३ ॥ Jain Education International For Private & Personal Use Only ५९ www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy