________________
५६५
आचारसारे
भयविस्मयविभ्रान्तिलीलाविकृतिलंधनप्रधावनाद्यपेतेर्यापथशुद्धिर्दयान्विता ॥ १२ ॥ समाहितप्रशान्ताङ्गा प्रलंबितकरा वरा। गतिश्चारित्रसंपत्तिहेतुर्नीतिरिव श्रियः॥१३॥ आरंभः प्राणिनःप्राणव्यपरोप उपद्रवः । उपद्रवणमंगच्छेदादिर्विद्रावणं मतम् ॥ १४॥ संतापकरणं तस्य परितापनमेतकैः। चतुर्भिरत्नं निष्पन्नमधः कर्मातिनिन्दितम् ॥ १५ ॥ (युग्मम् ) वाक्चित्तकायकारितकृतानुमतकर्मणा। नवभेदं तदेतेन कर्मणा परिवर्जिता ॥ १६ ॥ योद्गमोत्पादनैषणदेषैिः संयोजनेन च । प्रमाणांगारधूमाख्यैर्व्यपेता कारणान्विता ॥१७॥ एषणासमितिप्रोक्तकमाप्ताशनसेवना। भिक्षाशुद्धिर्गुणत्रातरक्षादक्षा स्मृता नुता ॥१८॥ (त्रिकम् ) उद्दिष्टाध्यवधिपूतिमिश्राणि स्थापितं वलिः। प्राभृतं च प्राविःकृतं क्रीतप्रामुष्यसंज्ञकौ॥ १९ ॥ परिवृतश्चाभिहतं दोष उद्भिन्ननामकः। मालिकाऽऽरोहणा छेद्या निसृष्टानीति चोद्गमाः२०॥ (युग्मम्) यत्स्वमुद्दिश्य निष्पन्नमन्नमुद्दिष्टमुच्यते। अथ वा यमिपाखंडिदुर्बलानखिलानपि ॥ २१ ॥ प्रगता यस्मादसवस्तत्स्यात्प्रासुकमित्यलम् । शुद्धमप्यन्नमात्मार्थ कृतं सेव्यं न संयतैः॥ २२॥ मत्स्यार्थ वा कृते मत्स्या माद्यन्ति मदनोदके। नो दर्दुरास्तथा भिक्षुर्दोष्युद्दिष्टान्नसेवकः ॥ २३॥ तंदुलांब्वधिकक्षेपः स्वार्थ पाके यतीन्प्रति। स्यादध्यवधिरोधो वा पाकान्तं तत्तपस्विनाम् ॥ २४॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org