________________
५२
आचारसारे
स्वैरं कण्टककर्करादिपरुषेऽप्यत्राणपादश्वरनेकः सिंह इवार्तिभीतिविजयी व्रज्यार्तिजित्संयमी ॥ ९ ॥ कंडू या गलगंडपांडुवथुग्रन्थिज्वरश्लीपदश्लेष्मोदुंबरकुष्ठपवनश्वासादिरोगार्दितः ।
भिक्षुः क्षीणबलोऽपि भेषजसुहृन्मंत्रानपेक्षः क्षमी दुःकर्मारिविनिर्मिताऽऽर्तिविजयी स्याद् व्याधिबाधाजयः ॥ १०॥ झंझावात हतार्तकौशिकशिवा फेत्कारघोरस्वरां शंपाक्रूररदां स्फुरनुचितडिज्जिह्वां क्षपाराक्षसीम् । यो तं द्राग्गमयत्यसौ शयनजातायासजिद्धीरधीर्ध्वान्तात्यन्तकरालभूधरदरीदेशे प्रसुप्तः क्षणम् ॥ ११ ॥ श्रान्तः सन् श्रुतभावनाऽनशनसङ्ख्यानाऽध्वयानादिभिः स्तोकं कालमतिश्रमापहृतये शय्यानिषद्ये भजन् । शुद्धोर्वीतृणपत्रसंस्तरशिलापट्टेषु तत्पीड़नः कंड्यादिसहो भवेदिह तृणस्पर्शक्षमी संयमी ॥ १२ ॥ रुष्ठैः पूर्वभवापकारकलनात्तज्जन्मवैरात्खलै-म्लेच्छोर्नः करुणैरकारणगुणद्वेषैश्च पापात्मकैः । देहच्छेदन भेदनादिविधिना यो मार्यमाणोऽप्यलं देहात्मात्मविभेदवेदनभवक्षान्तिर्वधार्तिक्षमी ॥ १३ ॥
हो ! देह ! सहायतां तव समुद्दिश्यैव पोष्यो मया पूर्त्तो मत्तपसो गृहावविमतो भ्रान्त्वाऽप्यनाप्तेऽशने । दोषः कोऽपि न विद्यते मम पुनर्लाभादलाभक्षमा तां पूर्ति प्रतनोत्यतः प्रियतमैषैवेत्यलाभक्षमा ॥ १४ ॥ दुर्बीरेन्द्रियवृन्दरोगनिकर क्रूरादिबाधोत्करैः प्रोद्भूतामरतिं व्रतोत्करपरित्राणे गुणोत्पोषणे । मंक्षु क्षीणतरां करोत्यरतिजिद्वीरः स वंद्यः सतां यो दंड दंडनाहितमतिः सत्यप्रतिज्ञो व्रती ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org