________________
षष्ठोऽधिकारः।
जिनाज्ञावर्त्तनं कीर्तिमैत्री मानापनोदनम् ।। गुणानुरागिता संघसम्मदाद्याश्च तद्गुणाः॥ ८४ ॥ किमत्र बहुनोक्तेन पदं सर्वेष्टसंपदाम् । रत्नत्रयीविभूषायां येन मुक्तिनिबन्धनम् ॥ ८५ ॥ व्यापत्प्रतिक्रिया वैयावृत्त्यं स्यात्सूरिपाठके। तपस्विशैक्ष्यग्लानेषु गणे संघे कुले यतौ ॥ ८६ ॥ मनोज्ञेच तपस्व्येषु नानाऽनशनवर्तनः । शैक्षो ज्ञानादिसंशिक्षो ग्लानो नानागदार्दितः ॥ ८७॥ गणः स्थविरसन्तानश्चातुर्वर्ण्यकदम्बकम् । संघः स्याद्दीक्षकाऽऽचार्यशिष्याम्नायः कुलं मतम् ॥ ८८॥ चिरप्रव्रजितः साधुर्यतिः शेषो हि संयमी। दीक्षोन्मुखो मनोज्ञाख्योऽसंयतो वा सुदर्शनः ॥ ८९ ।। विद्याजात्यादिविख्यातो मिथ्यादृग्वाऽस्य संग्रहः। जिनप्रवचनस्यायं लोके गौरवकारकः ॥ ९०॥ [ पंचकम् ] परीषहसमाश्लेषेऽमीषां यच्छेमुषीमुदः । संपादनं त्रिरत्नात्यै वैयावृत्त्यं त्रिशुद्धितः ॥ ९१॥ आवासाशनपानाद्यैःप्रासुकैः क्लेशनाशिभिः । तदभावे स्वकायेन स्वोपकारानपेक्षया ॥ ९२ ॥ विण्मूत्रश्लष्मसिंघाणकादेहादपोहनात् । । यत्नेनोत्क्षेपनिक्षेपपरिवर्तक्रियादिभिः ॥ ९३ ॥ अस्मिन्निर्विचिकित्सत्ववत्सलत्वसनाथता। यशोऽभ्युदयनिश्रेयःसुखाप्तिप्रमुखा गुणाः ॥९४ ॥ स्वस्मै योऽसौ हितोऽध्यायः स्वाध्यायो वाचनादिकः । तपो वर्यमतो नान्यत्तपःसु द्वादशस्वपि ॥ ९५ ॥ नोर्ध्वमन्तर्मुहूर्तात्सध्यदानमध्ययनं पुनः। सदैनोनिर्जराकारि किन्तु न स्यात्कृतात्मनाम् ॥ ९६ ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org